________________
(१९४)
सारस्वते प्रथमवृत्तौ। न च दानकाम्यया । यहीयते वासनया सुपात्रे तसंप्रदानं कथितं कवीन्द्रः॥ अनलिहिते इत्येव । दानीयो विप्रः । कचित्सम्यक्त्रेयोबुद्ध्यभावेऽपि चतुर्थी | व्याजेन रघवे करमित्ति महाकविप्रयोगदर्शनात् । तच संप्रदानं त्रिविधम् । प्रेरकमनिराकत्रनुमन्त चेति । त्यागेन कर्मणा व्याप्तं प्रेरकं चानुमन्तु च ॥ अनिराकत चेत्येतत्संप्रदानं त्रिधा स्मृतम् ।। देहीति प्रेरयति तत्प्रेरकम् । यथा बटवे भिक्षा ददाति । यत्तु इदमहं ददामीत्युक्तेऽनुमन्यते ओमित्याह तदनुमन्तु । यथा शिष्यो गुरवे गां ददाति । यत्तु नानुमन्यते न निराकरोति तदनिराकर्तृ । यथा सूर्यायाध्य ददाति । क्रियया यमभिप्रैति सोऽपि संप्रदानम् । पत्ये शेते । दानपात्रे इत्यादि । दानपात्रे, दीयते इति दानं दानाय पात्रं दानपात्रं दत्तवस्तुनः स्वामी भवतीति यावत् तस्मिन् दानपात्रे । कीदृशे संपदाननामकारकेसम्यक् श्रेयोबुद्धया यस्मै प्रदीयते तत्संपदानं यस्मै दंचे आमुष्मिकालमाप्तिर्भवति तत्संपदानमुच्यते । संपदानं च तत्कारकं च संपदानकारकं तस्मिन् । यदुक्तम् । ददाति दण्डं पुरुपो महीपतेर्न चात्र भक्तिनं च दानकामना । यद्दीयते वासनया सुपाने तत्संप्रदानं कथितं मुनीन्द्रः । तत्रोदाहरणम् । वेदं वेतीति वेदवित् तस्मै वेदविदे ब्राह्मणाय कश्चित्पुरुषो गां ददाति इत्यत्र वेदवित्त्वे सति दानपात्रत्वं संमतमेव । एवं साघवे उन्नं पतिलाभयति । अन्यथा दानपात्राभावे राज्ञो दण्डं ददाति, अत्र चतुर्थ्यभावः ।
॥ इति चतुर्थी ॥ विश्लेषावधौ पञ्चमी। विश्लेषो विभागस्तत्र योऽवधिः स चलतया अचलतया वा विवक्षितस्तत्रापादाने पञ्चमी । विश्लेपो नाम संयोगपूर्वको विभागः। आधाराधेययोर्मध्ये आधारत्वेन ज्ञायमानः सोऽवधिः। आधीयतेऽस्मिन्नसावा