________________
(१५)
स्वरसंधिप्रक्रिया || २॥ जिह्वामूलं ६ । अनुस्वारस्य नासिका ७ । एदैतोः कण्ठतालु ८ | भोदौतोः कण्ठोष्ठं ९।वकारस्य दन्तोष्ठं १० । आ ई ऊ ऋ हुताश्च एते एतेषां सवर्णग्रहणेनैव गृह्यन्ते सवरलैणनङमैश्च संयुक्कस्प हस्पोरः स्थानं यतः । अष्टौ स्थानानि वर्णानामुरः १ कण्ठः २ शिरस्तथा ३ ॥ जिह्वामूलं च ४ दन्ताश्च ५ नासिको ६ ष्ठौ ७ च तालुच ८ ॥
इति संज्ञामक्रिया ॥ १ ॥
अधाधुना स्वरसंधिरभिधीयते ॥ दधि आनय इति स्थिते । वर्णग्रहणे सवर्णग्रहणं कारग्रहणे केवलग्रहणं तपरग्रहणे तावन्मात्रग्रहणमिति शिष्टसंकेतः । तस्मिन्निति निर्दिष्टे पूर्वस्य । सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् । अतो वृत्तौ परे इति व्याचष्टे । एवमन्यत्रापि ज्ञेयम् ॥ अधुनेति । संज्ञाकथनान्तरं सन्धिरभिधीयते कथ्यते । अक्षराणामन्योन्यं संधानं मेलनं सन्धिः । तत्राप्यादौ स्वरसन्धिः स्वराणां सन्धिः स्वरसन्धिः । ननु सति अकारे इकारसन्धिरेवादौ कथं प्रतिपादितः तत्रोच्यते । इकारः सावित्रीरूपः सा च सर्वजगत्पष्टिकत्रीं तस्मात्पूर्वं प्रत्यपादि । सूत्रम् ।
इयं स्वरे ।
इवर्णो यत्वमापद्यते स्वरे परे । दधू य् आनय इति तावद्भवति । इयमिति इ (प्र. ए. ) साङ्केतिकं य (द्वि.ए.) अम्मशसो० मोनुस्वारः । स्वर० अइए । सिद्धं यद्वा इश्व ईश्व ई: नपुंसकस्येति -हस्वः । नपुंसकात्स्पमोर्लुक् वर्णग्रहणे सवर्णग्रहणमिति वचनात् । इकार ईकाररूपो यत्वं यकारत्वमापद्यते प्राप्नोति स्वरे परे । हस्वदीर्घतभेदा इति अकारस्य स्वरत्वे आकारस्यापि स्वरत्वं सिद्धमेव । दधिः आनय ।' इयंस्वरे ' अनेन सूत्रेण इकारस्प यकारः दध÷८÷ आनय इति जातं । ननु दधि आनयेत्यत्र । नामिनः स्वरेति नुमागमः कथं न क्रियते तत्राह । नामिनः स्वरे तु विभक्तिसक्तस्वरे परे भवति । नन्वत्र तर्हि यस्प लोपः कथं न क्रियते तत्राह यस्प लोपस्तु ईपि तद्धिते कृते स्वरे यकारे च परे भवति नत्वन्यत्र । दूध : यः आनयेत्यत्र संयोगान्तस्य लोपः इत्यस्य प्राप्तौ । असिद्धं बहिरङ्गमन्तरङ्गे इति यलोपनिषेधः ॥ १ ॥ कृल्पान्तरमाह । सूत्रं ।