________________
सारस्वते प्रथमवृत्ती ।
मुखनासिकाभ्यामुञ्चार्यमाणोऽनुनासिकः । मुखेनोच्चार्यमाणो निरनुनासिकः । अः इति विसर्जनीयः । वर्णशिरोबिन्दुरनुस्वारः । अं अः इति अचः परावनुस्वारविसग । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङ्गनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठन् । वकारस्य दन्तोष्ठम् जिव्हामूलीयरूप जिव्हामूलम् । नासिकाऽनुस्वारस्य । क
ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिव्हामूलीयः । पफ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः । शबसहा ऊष्माणः । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः ॥
( १४ )
हकारं पञ्चभिर्युक्तमन्तःस्थैश्वाभिसंयुतम् ॥ उरःसंस्थं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ॥ जिह्वामूलं च दन्ताश्व नासिकोष्ठौ च तालु च ॥ इति संज्ञाप्रक्रिया ॥ १ ॥
सुखनासिकाभ्यामिति । रूढं पदं अन्यथा द्विवचनं न संभवति । पथो तं मक्रियाकौमुद्यां ' द्वन्द्वश्च प्राणितूर्यसेनाङ्गानां । एषां द्वन्द्व एकवत्साध्यः एकवचनं भवतीत्यर्थः । माण्यङ्गे दन्तोष्ठं मुखनासिकं तूर्याने माकपाणविक सेनाङ्गे रथिकाश्वारोहं इति वचनात् मुखनासिकाभ्यामुच्चार्यमाणो वर्णोंऽनुनासिक संज्ञउच्यते ज्यणनमा अनुनासिका इति । मुखात् अनु पश्चात् नासिकां स्पृशतीत्यनुनासिकः । चतुर्दश १४ स्वराः त्रयत्रिंशद्धसाः ३३ अनुस्वारः, विसर्गः, जि ह्वामूलीयः, उपध्मानीयः १ सुतश्च, एवं द्विपञ्चाशदक्षराणि । एतेषामष्टौ स्थानानि सन्ति तान्याह अकुहविसर्जनीयानां कण्ठः १ | इचुयशानां तालु २ । उपूपध्मानीयानामोष्ठौ ३ । ऋटुरपाणां मूर्धा ४ | ऌतुलसानां दन्ताः | ५ | जिह्वामूलस्प