________________
संज्ञामक्रिया ॥१॥
(१३) अस्य आ वृद्धिः । ऋवर्णस्य आर् इवर्णस्य एकारस्य च ऐ उवर्णस्य ओकारस्य च औ। एते चत्वारो वृद्धिसंज्ञा भवन्ति ऋकारलकारयोः सावपादेव लकारस्य वृद्धिः आल तत्कर्याणि आदिस्वरस्य णिति वृद्धिः । धातोनामिनः । अवउपधायाः। इत्यादीनि ॥ अथ टिसंज्ञामाह।।
अन्त्यस्वरादिष्टिः। अन्त्यो यः स्वरस्तदादिवर्णीष्टसंज्ञो भवति । अन्त्यस्वरादि (प्र.ए.) टि (प्र.ए.) द्विपदं अन्वे भवो अन्त्यः अन्त्यो योऽसौ स्वरः स आदिर्यस्य सोन्त्यस्वरादिः ( म. ए.) टिः ( म. ए. ) । स्रो०मध्ये । विसर्जनीयस्यलःष्टभिः ष्टुः । स्वर० । अन्त्यो यः स्वरस्तदादिवर्णश्च सोऽन्त्यस्वर एव आदौ यस्य सोऽपि वर्णष्टिसंज्ञको भवति स्वरान्तशब्दस्प अन्तिमस्वर एव ठिसंज्ञः हसान्तशब्दस्य अन्त्यो हसस्तत्वाश्चात्यःस्वरश्चेति द्वावपि टिसंज्ञौ इत्यर्थः । तत्कार्य । डितिटेलोपः । इत्यादि यथा अचिन्त्यमहिमः ॥अयोपघासंज्ञामाह । सूत्रम् ।
___ अन्त्यात्पूर्व उपधा। अन्त्यावर्णमात्रात्पूर्वी यः स उपधासंज्ञो भवति ॥ अन्त्येति।सिर । सवर्णे । पूर्व (म.ए.) उपधा(म.ए.) आपः। त्रिपदं अन्त्यावर्ण मात्रादक्षरात्पूर्वो यो वर्णः स उपधासंज्ञो भवति । तत्काणि । नोपधायाः। अत उपधायाः । इत्यादीनि । राजनशब्दवत् ॥ अथ लघुसंज्ञामाह ।
असंयोगादिपरो हस्खो लघुः। __असंयोगति असंयोगादीनि संयोगादयः । संयोगविसर्गानुस्वाराः परे यस्मा
स संयोगादिपरः न संयोगादिपरः असंयोगादिपरः एवंभूतो इस्त्रो वर्णों लघुरुच्यते । तथाचोक्तं पाकृतछंदोग्रंथे । पछीउडीलहुवं कुडो केवलो वन्नोजई ॥ एतीन्युलघुजानीयहुंअवरसवेगुरहोई ॥ १॥ यथा । क कि कु तथा अ इ उ ऋ ल ऐतेषामने विसर्गानुस्वारसंयोगा न भवन्ति तदा एवे षां लघुसंज्ञा ॥ अथ गुरुसंज्ञामाह ।।
विसर्गानुस्वारसंयोगपरो दीर्घश्व गुरुः । विसर्गानुस्वार इति विसर्गानुस्वारसंयोगाः परे अग्रे वर्तमाना यस्मात्स विसर्गानुस्वारसंयोगपरः विसर्गपरो यथा अः । अनुस्वारपरः अं । संयोगपरो यथा अस्य । दीर्घो यथा आभू एवंभूतो इस्वोऽपि पुनर्घिश्च गुरुरुच्यते ॥