________________
(१२)
सारस्वते.प्रथमवृचौ। इत्कृत्यमाह। यस्येत्संज्ञा तस्य लोप उच्यते उच्चरितप्रध्वंसिनो बनुबन्धा इति । लोपलक्षणमाह । वर्णति । वर्णानामक्षराणामदर्शनमनवलोकनं पध्वंसामावो लोप उच्यते ॥ वर्णानां विरोधः सन्धिकार्यवर्जन यस्मिन् स लोप एव लोपश् कथ्यते। एक वर्ण विनाशयति अन्यस्योत्पति प्रतिबन्धातीति लोपश् तत्काय लोपशि पुनर्न संधिः यथा त आगता इत्यादि । मित्रवदागम इति । आगमो मि प्रवत् । यथा मित्रं मित्रस्य समीपे आगत्योपविशति तथा आगमोप्यायावि यथा सगादिः शत्रुवदादेशः॥ आदेशः शत्रुवत् । यथा शत्रुः शत्रु विनाश्य तत्स्थाने तिष्ठति तथा आदेशोऽपि आदेशिनं विनाश्य तत्स्थाने भवति शकारादेशवत् ।। अथ संयोगसंज्ञामाह । स्वरेति । अन्तरं जातं येषां ते अन्तरिताःन अंतरिता: अनंतरिताः स्वरैरनन्तरिताः स्वरानन्वरिताः स्वरान्तररहिता ईदृशा हसा व्यञ्जन वर्णाः संयोगसंज्ञया उच्यन्ते। अत्र बहुवचनं जात्यभिप्रायेण तेन द्वयोरपि हसयोः संयोगसंज्ञा स्यात् । यद्वा हसौ च हसाच हसाः एकशेषसमासः संयोगकार्य 'संयोगान्तस्य लोपः' इत्यादि ॥ वर्ग संज्ञामाह । कुञ्चिति । कुश्च चुश्च टुच तुश्च पुश्च कुचु टुतुपु(म.ब)सांकेविका वर्ग (प.ब.) सवर्णेसो० । एते पञ्च वर्गसंज्ञका भवन्ति तत्कार्य स्तोश्रुभिश्चः। टुभिधुः । कुप्वोः क पौ वा । इत्यादि । उकारहेतुमाह । उकार इति । स्वरेषु पञ्चमी मात्रा उकारः वेन 'कु' इत्युक्त कखगघङ । 'चु' इत्युक्त चछजझन।'टु' इत्युक्ते टठडढण। 'तु' इत्युक्ते तथदधन । 'पु' इत्युक्ते पफबभम । इति पञ्च पञ्चाक्षसणि गृह्यन्ते ॥ गुगलक्षणमाह ।
अरेदो नामिनो गुणः ।। नामिनः स्थानका अर् ए ओ एते गुणसंज्ञका भवन्ति । अरच एच ओर च अरेदोत् साङ्केतिकं अन तपरकरणमसन्देहाथ नामिनः(प.ए.) स्वरसोव्हबे उओगुणः (प.ब.)स्रो० नामिनः स्थानका नामिनः स्थाने जाताः। ऋकारस्य ऋकारस्य च अर्इकारस्य ईकारस्यच ए, उकारस्प ऊकारस्य च ओ, एवे अयोऽपि गुणसंज्ञका भवन्ति । लकारस्य तु अल। ल तु सावाद्वाह्यः तत्कार्याणि गुणः । उपधाया लघोः इत्यादीनि ॥ अथ वृद्धिसंज्ञामाह
आरैऔ वृद्धिः।
आ आर ऎ औ एते वृद्धिसंज्ञा भवन्ति। आच आर्च ऐच औच आरैौ । सांकेतिकत्वाद्विभकिलोपः। द्धिः (म.ए.) सोग