________________
(१८०)
सारस्वते प्रथमवृत्तौ ।
ईप्समाहारे गुणश्च । त्रयाणां समाहारः त्रयो ।
ईप् समाहारे गुणश्च । समाहार एकीभावः तत्रार्थे ईपू प्रत्ययो भवति नामिनो गुणश्च । त्रयाणां समाहारखयी समाहारत्वात् ईपू इकारस्य च गुणः । ए अय् स्वर० (म. ए. ) इसेपः । केचित्तु ईप्समाहारे गुणश्चेति न मन्यन्ते । तन्मते तयापठौ संख्यायामिति त्रिशब्दादपटि कृते यस्येती कारलोपे दित्वात् इति इतीप् । पुनर्यस्य लोपः । स्वर० त्रयोऽवयवा अस्या इति त्रयी ।
I
पुंयोगे च । पुंयोगे च स्त्रियामीप्प्रत्ययो भवति । शूद्रस्य भार्या शूद्री । गणकी । गोपालिकादीनां न । गोपालिका पशुपालिका । सूर्याद्देवतायां चाप् । सूर्यस्य स्त्री देवता सूर्या । अन्या सूरी ।
"
पुंयोगे च । पुमान् पुरुषः तस्य योगेऽपि ईपू प्रत्ययो भवति । शूद्रस्य भार्यां शूद्री । जात्या या काचिद्भवतु परं शूद्रस्य पुरुषस्य स्त्रीत्वात् शूद्री | गणकस्य भार्या गणकी ईप्प्रत्ययः । यस्य लोपः । शेषं सुकरम् । सूत्रम् ।
जातेरयोपधात् । जातिवाचिनोऽयकारोपधादकारान्तारित्रयामीपप्रत्ययो भवति । अस्त्रीविषयादिति वाच्यम् । तेन मक्षिका बलाका इत्यादौ न । गवयहयमुकयमत्स्यमनुव्याणां न निषेधः । गवयी इत्यादि । शूकरी, हंसी, कुक्कुटी, ब्राह्मणी । अयकारोपधग्रहणात्क्षत्रिया वैश्या ॥ शूद्राजातौ न । शूद्रस्य जातिः शूद्रा । महत्पूर्वात्तु ईप् । महाशूद्वी आभीरजातिः । पुंयोगे च । महाशूद्रस्य भार्या महाशूद्री ।
जातेरयोपधात् । जाति (पं. ए.) विविङस्य सो० अयोपधः, यो यकार: उपधा यस्य स योपधः ततो न योपधः अयोपधस्तस्मात् (पं.ए.) ङसिर सवर्णे० पश्चान्नामिनो रः । स्वर० सिद्धं जातिर्मेष। दिका आकृतिः आकारः ग्रहणं व्पञ्जकं यस्याः सा जातिः तांवतीति जातिवाची तस्मात् । स जातिवाची शब्दो यकारोपघोऽपि स्यादत आह । अयकारोपधादिति । यकारोपधवर्जितादित्यर्थः । यकारोपधवर्जिता अपरेऽपि स्वराः स्युरत आह । अकारान्तादिति सुगमम् | जावि