________________
( १७९ )
॥ श्रीमत्ययाः ॥ इन्द्रादेरानीप् च । इन्द्रादेर्गणात्त्रियामानीपप्रत्ययो भवति । इन्द्रादेरित्यादिशब्दादिन्द्र-ब्रह्म-रुद्र-भव-शर्व- मृड - वरुणादयः । इन्द्राणी । ब्रह्मशब्दस्य नलोपो वाच्यः । ब्रझाणी । रुद्राणी, मृडानी, वरुणानी । चकारान्मातुलोपाध्यायक्षत्रियाचार्यसूर्याद्वा ।
इन्द्रादेरानीप् च । इन्द्रादि (पं. ए . ) ङितिङस्य स्रो० आनीपू (म.ए.) इसे पः० पश्चान्नामिनोरः स्वर० । केचित्तु इंद्रादेः आन ईपू च इति चतुःपदं मन्यन्ते; तन्मते इन्द्रादेः ईप्प्रत्ययः आन आगमश्चेति । इन्द्रादेर्गणात् स्त्रियां आनीप्पत्ययो भवति । इन्द्र, भव, शर्व, मृड, वरुण, ब्रह्म, रुद्र, अनेन सूत्रेण आनीपप्रत्ययो भवति यथासंभवं नकारस्य णकारः । यस्य लोपः । इन्द्रस्य स्त्री इन्द्राणी स्वर० (म.ए.)' इसेपः । सूत्रम् मातुलेत्यादि । मातुल उपाध्यायश्च क्षत्रियश्च आचापश्च सूर्यश्च मातुलोपाध्पापक्षत्रियाचार्य सूर्य तव एतस्माच्छब्दपञ्चकाद्वा आनीप् प्रत्ययो भवति ।
आचार्य क्षत्रियाभ्यां वा स्वार्थे । आचार्यांणी - आचार्या । आचार्य क्षत्रियाभ्यां तु स्वार्थे एव आनीपू । मातुल - एकत्र आनीपू अन्यत्र ईपू यस्य लोपः शेषं सुकरम् । मातुली, मातुलानी | एवम् उपाध्याय एकत्र आनी अन्यत्र ईपू उपाध्यायानी उपाध्यायी । एवं क्षत्रियसूर्ययोः ष्हन ० आचार्यांदणत्वमिति आचार्यानी आचार्या, क्षत्रिपाणी क्षत्रिया, सूर्याणी सूर्या, अर्वाणी अर्या । पुंयोगे तु ईपूप्रत्यय एव क्षत्रियी आचार्थी उपाध्यायी । स्वयं व्याख्यात्री तु उपाध्याया । अत्र आप् ।
हिमारण्ययोर्महत्त्वे । महद्धिमं हिमानी । महदरण्य मरण्यानी |
हिमारण्ययोर्महत्वे | आनीप् । महत् हिमं हिमानी, महत् अरण्यम् अ
रण्यानी ।
यवना लिप्याम् । यवनानां लिपिर्यवनानी । यवनशब्दालिप्यामानीप् । यवनानां तुरुष्काणां लिपिवनानी | यवाद्दोषे । दुष्टो यवो यवानी ।
यवादोष आनीप् । दृष्टो यवो पवानी |
.