________________
॥श्रीमत्पपाः ॥
(१७७) यस्य लोपः। इश्व अश्व यस्तस्य यस्य (प.ए.) उस्स्स्प इयं स्वरे। स्वर० । लोपः (म. ए.) स लो. सिद्धम् । यद्वा इश्व ई चई सवर्णे० अश्च आश्च आः ततः ईश्च आश्च या (प.ए.) नपुंसकस्येति इस्वः इस्य । लोपः (म. ए.) स्रो० इति । इकारस्य ईकारस्य च अकारस्य कारस्य च लोपो भवति । वृत्तिः कठ्यानिवरं यस्येति इवर्णस्य अवर्णस्य चलोपोभवति ईपि प्रत्यये परे तद्धिते स्वरे परे यकारे च परे अनेन वकारस्य अलोपः। स्वर० औपगीति सिद्धम् । 'त्रण ई' इत्यस्यापवादमाह ।
स्वस्रादीनामनन्तानां संख्यावाचिनां च ने वक्तव्यः । स्वसा तिसश्चतस्रश्च ननान्दा दुहिता तथा ॥ याता मातेति सप्तैते स्वस्रादय उदाहृताः॥ स्वसा दुहिता सीभा पञ्चेत्यादि ।
स्वस्त्रादीनामिति । स्वस्रादीनामृदन्तत्वे पश्चादीनां नकारान्तत्वेऽपि ईए न स्यात् । स्वसा, दुहिता, ननान्दा, मावा, याता, तिस्रः, चतस्रः, पञ्च, सप्त, इत्यादि । के ते स्वस्रादय इत्यपेक्षायामाह स्वसेति ।
पादन्तास्त्रियामीबू वा वक्तव्यः। द्विपदी-द्विपात् ॥ ऋचि पादन्तादादेव वक्तव्यो न ई। पादः पद् । द्विपदा ऋक् । अनन्ताबहुव्रीहे ब् वा वाच्यः । बहुसीमा बहुसीमे बहुसीमाः । पक्षे बहुसीमा बहुसीमानौ बहुसीमानः । बहुयज्वा बहुयज्वे बहुयज्वाः । पक्षे बहुयज्वा बहुयज्वानों बहुयज्वानः ॥ उपधालोपिनोऽनन्ताबहुव्रीहेरीब् वा । बहुराज्ञी बहुराइयो। पक्षे डाप् । बहुराजा बहुराजे । डापोऽप्यभावे बहुराजा बहुराजानौ संख्यादेान ईप विदानी। पादन्तादित्यारभ्य संख्यादेर्दान ईबित्यन्तं सुगमम् । सूत्रम् । व्रितः। षकारटकारउकारऋकारानुबन्धाच स्त्रियामीपप्रत्ययो भवति।प्च ट्च उश्च ऋश्व एपां समाहारःचा व इत् यस्येति ष्टवित्। तस्मात् तितः। ष् वराकी। ट् कुरुचरी । उ गोमती । ऋ पचन्ती । पठन्ती । धातोरुदितो २३