________________
अव्यय संग्रहः ॥ ८ ॥
( १६७ ) इति पार्श्वतः । पूर्वस्याम् इति पूर्वतः । एवं सर्वतः इतः इत्यादयोsवसेयाः । पूर्व्वस्मिन्नित्यस्य पुरस्तात् पूर्वस्मिन् काले देशे च पूर्वस्यां दिशि चेत्यर्थः । तथाच कालापके पूर्वस्मात् दिग्देशकालार्थात् सप्तमीपं चप्रथमान्ताद् अस्तातिः पूर्वस्य पुरनिपातः अनद्यतने । एवं अधः इति अधस्तात्, उपरिष्टात् उपरि इति, परस्मिन्निति परस्तात् परस्मिन् देशे काले परस्यां दिशि वेति । परस्मिन् इति परेण । दूरेऽर्थे वाच्ये विशेषमाह । सूत्रम् ।
आहिच दूरे । दूरेऽर्थे वाच्ये सति आहिच् प्रत्ययो भवति । दक्षिणस्यां दिशि दूरे इति दक्षिणाहि वसन्ति चाण्डालाः । चकरादाच् । दक्षिणा ।
आहिच दूरे । आहिच् (म० ए० ) च (अव्ययं ) दूरे (स० ए० ) 1 वृत्तिः सुगमा । दक्षिणस्यां दिशि दूरे इति दक्षिणाहि चाण्डाला वसन्ति दक्षिणस्प दिशि दूरे वसन्तीत्यर्थः । इत्यसामीप्येऽर्थे आहिप्रत्यय इति सूचितम् । एवम् उत्तराहि वसन्ति कौरवा उत्तरस्यां दिशि दूरे वसन्तीत्यर्थः । किंशब्दे विशेषमाह । सूत्रम् । किमः सामान्ये चिदादिः । सर्वविभक्तयन्ताकिशब्दात्सामान्येऽर्थे चित् चन इत्येतौ प्रत्ययौ भवतः । कश्चित् कश्वन कचित् क्वचन |
किमः सामान्ये ० । किमः (५० ए० ) सामान्ये (स० ए० ) चिदादिः (प्र० ए० ) त्रिपदं सूत्रम् । किमः त्रिषु लिङ्गेषु सिद्धादेव किमशब्दात् सामान्ये भज्ञाताद्यर्थे भनिद्धरितेऽर्थे सप्तसु विभक्तिषु चिदादिरिति चित्चनप्रत्ययौ भवत इत्यर्थः । अज्ञातः कः कश्चित् कौचित् केचित् काचित् किंचित् कुत्रचित् कचित् कश्चन काचन किंचन क्वचन एवं सप्तस्वपि विभक्तिषु । पुनर्निपातान्तरमाह । सूत्रम् । तदधीनकाययो वा साद । तदधीनार्थे कात्स्न्यर्थे वा सात्प्रत्ययो भवति । राज्ञोऽधीनं राजसात् । सर्व भस्म इति भस्मसात् । अग्नेः अधीनमित्यग्निसात् । सात्प्रत्ययस्य. षटवं नेच्छन्ति ।
तदधीनेति । तदधीनकात्स्न्येयोः (स० द्वि०) वा ( अव्ययं ) सात् (म० ए० ) यद्यस्याधीनमायत्तं तत्तदधीनं । कृत्स्नस्य समग्रस्य भावः कारस्थं