________________
( १६६ )
सारस्वते प्रथमवृत्तौ ।
उच्यन्ते । केप्येतेषां द्योतकाः केऽपि वाचकाः केऽप्यनर्थकाः । आगमा इव केsपि सुसंभूयार्थस्य साधकाः । प्रथमं विभक्तपर्यसूचकान्निपातानाह ।
तत्रादिर्विभक्त्यर्थे निपात्यते । तस्मिन्निति तत्र । यस्मि - न्निति यत्र । कस्मिन्निति कुत्र कुह क्व | अस्मिन्निति अत्र । / तस्मिन्काले तदा । यस्मिन्काले यदा । कस्मिन्काले कदा । अन्यस्मिन्काले अन्यदा । सर्वस्मिन्काले सर्वदा । तेन प्रकारेण तथा । येन प्रकारेण यथा । केन प्रकारेण कथम् । अनेन प्रकारेण इत्थम् । सर्वथा उभयथा अन्यथा अन्यतरथा इतरथा । तस्मादिति ततः । यस्मादिति पतः | अस्मादिति अतः । कुतः अमुतः युष्मत्तः अस्मत्तः भवतः । सार्वविभक्तिकस्तस् इत्येके । पूर्वतः सर्वतः पूर्वस्मिन्निति पुरस्तात् । अधरस्मिन्नित्यधरस्तात् । परस्मिन्निति परेण - परस्तात् ।
4
तत्रादिर्गणो विभक्त्यर्थे निपात्यते । तत्र सप्तम्पर्थे (स. ए.) तस्मि म् इत्यस्यार्थे ' तत्र ' इति निपातः । एवं तयोः तेषु तस्पा तयोः सासु एतेष्वपि 'तत्र ' इति निपातः । एवं सप्तम्यर्थे वर्त्तमानाचच्छब्दात् त्रप्रत्यपः दलोपश्च । एवं सप्तम्यर्थे वर्त्तमानाद्यच्छब्दात् त्र प्रत्ययो दलोपो यत्र । किम् शब्दात् त्र प्रत्ययः कु आदेशः कुत्र सप्तम्यर्थे । किम् शब्दात् अ प्रत्ययः कु आदेशः उवं स्वर० क्व | प स्मिन् इत्यस्य यत्र । कस्मिन् इत्यस्य कुत्र, कुछ, क्व । एवं द्वि, भवत्, युष्मदस्मदो च वर्जपित्वा सर्वादिगणात् सप्तम्यर्थे त्र इति भवति । सर्वत्र उभयत्र अन्यत्र एकत्र पूर्वत्र परत्र इत्यादि । तस्मिन् काले तदा । यस्मिन् काले यदा । कस्मिन् काले कदा | एकस्मिन् काले एकदा । एवं सर्वदा, पक्षे सर्वस्य सः । सदा । अन्यदा । तेन प्रकारेण तथा । येन मकारेण यथा । केन प्रकारेण कथम् । अनेन प्रका रेण इत्थम् । सर्वेण प्रकारेण सर्वथा । एवमन्यथा इतरथा अपरथा । तस्प्रत्य यान्तानाह पञ्चम्यर्थे तम् । तस्मादिति ततः । यस्मात् इति यतः । कस्मात् - स्पर्थे कुतः । अस्मात् इत्पर्थे अतः । एवं ग्रामतः लोकतः सर्वतः । सार्व० एके आचार्या इत्याहुः। तस् प्रत्ययः सर्वविभक्तिषु भवति सर्वांसां विभक्तीनाम् अर्थे भवतीत्यर्थः । स्वमते तु पञ्चम्पर्ये एव अयम् इत्यर्थः । क इति कुतः । पार्श्वे