________________
( १६४ )
साररवते प्रथमवृत्तौ ।
1
चादिभिश्च । चादिभिरपि योगे नैते आदेशा भवन्ति । युवयोरावयोश्वेशो हरिममेव रक्षतु ॥ तुभ्यं मह्यं च देवेशो दद्याच्छं तुभ्यमेव च ॥ वाह अह एव । आदिशब्देनैते चत्वार एव गृह्यन्ते नाम्ये । 'न चवाहा हैवयोगे' इति पाणिनीयवचनात् । साक्षायोगेऽयं निषेधः । न पुनर्युक्तयुक्ते शिवो हरिश्व मे स्वामीत्यादौ ।
चादिभिश्व । च: आदिर्यपां ते चादयस्तैश्चादिभिः (तृ. प. ) स्रो० च (प्र. ए.) अव्य० विसर्जनीयः, स्तोः श्रुभिः श्रुः सिद्धमिदम् । चादिभिरपि सह योगे च, वा, द्द, अह, एव, एतेषां पञ्चानामव्ययानां योगेऽपि समीपवर्तित्वे सवि एते ते भेवांनौवसून सूरूपा आदेशाः प्रायो न भवन्ति । यथा तव मम च समागमस्तदासीत् । तव मम वा किमप्यसाध्यं नास्ति । तव मम च महच्चकास्ति सख्यं । तव ममाह क्वचिद्भवेद्वियोगः । सा तवैव भक्तोऽस्मि । इत्यादि । अथ चादीन्निपातानाह । सूत्रम् । अथाव्ययसंग्रहः |
चादिर्निपातः । च वा ह अह एंव एवं नूनम् पृथक् बिना नाना स्वस्ति अस्ति दोषा मृपा मिथ्या मिथस् अथ अथो ह्यस् श्वस् उच्चैस् नीचैस् स्वर् अन्तर् प्रातर् पुनर् भूयस् अहो स्वित् सह नम ऋते अन्तरेण अन्तरा नमस् अलम् कृतम् अमानोनाः प्रतिपेधे । ईपत् किल खलु वै आरात् दूरात् भृशं यत् तत् । स्वराश्च । इत्येवमादिर्गणो निपातसंज्ञो भवति । द्रव्यंवचनो नेति ज्ञेयम् ।
चादिर्निपातः । चादि (म. ए.) स्रो० निपतत्यनेकेष्वर्थेष्वति निपातः । (म.ए.) स्रो० सिद्धम् । चवाह इत्यादि माग्वत् । स्वराश्च इत्येवमादिर्गणो निपातसंज्ञो भवति । एते निपाता उच्पन्ते स्वराश्चेति चकारात्प्राद्युपस अपि निपातसंज्ञा भवन्ति । अथैतेषां किंचिद्विवरणं लिख्यते । च पुनरर्थे समुच्चयार्थे च । या विकल्पार्थे, उपमानार्थे च । ह अह इति द्वौ खेदार्थों पादपूरणार्थी च ।
१ अद्रव्यार्थायादयो निपानना अत्यन्यन | यदा येते द्रव्यवचनास्तदा निपानसष्ठाविरद्ध इत्याधिकम् ।