________________
युष्मदस्मत्मक्रिया ॥७॥ (१६३) थमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा वा वक्तव्याः। भक्तस्त्वमप्यहं तेन हरिस्त्वा त्रायते स मा ॥ अचाक्षुषज्ञानार्थधातूनां योगे नेते आदेशा वक्तव्याचेतसा त्वामीक्षते,ध्यायति, स्मरतीति वा ।चाक्षुषज्ञानार्थधातुयोगे तु भक्तस्त्वा पश्यति चक्षुषा । युक्तयुक्तऽपि निषेधः।भकस्तव रूपं ध्यायति ध्यायते । रूपेण सह संबन्धाद्ध्यानेन युक्तं रूपं तद्रूपेण युक्तस्य तवेत्यस्य युक्तयुक्तत्वात् । विशेष्यपूर्व संबोधनेतरपूर्व संबोधनं हित्वा अन्यस्मात्संबोधनात्परयो ते आदेशा भवन्ति । इति केचित् । देवास्मान्पाहि नृहरे विष्णोऽस्मान्पाहि सर्वतः॥ विशेष्यपूर्वात्, हरे कपालो नः पाहि । संबोधनेतरपूर्वात्, सर्ववा रक्ष देव नः।
नादौ । न (म. प.) अव्य० आदि (स. ए.)रौडित् । टिलोपः। पश्चास्वर० सिद्धम् । पादः श्लोकचतुर्थाशः तेमे वांनी वस्नस् इत्यादय आदेशा न भ. वन्ति । अत्रोदाहरणम् तवेति । हेराजन् ये तव शत्रवस्ते ममापि अतिशत्रवः। तव मित्राणि पानि स्युर्मम मित्राणि तान्यपि । युष्माकं भगवान् स्वामी भस्माकं पापनाशनः । अत्र पदादित्वाचे, मे, वः, नः, आदेशा न जाताः सम्बोधनमामन्त्रणं तदन्तं पत्पदं तदपि वस्नसादय आदेशा बाहुल्येन न भवन्ति । यथा राजन् ममइत्येवोदाहरणम् । यथा, हे देव तव दासोऽस्मि देव सुभ्यं नमः सदा ॥पादादावितिकिम् । पादादावेव एतेषामादेशानां निषेधो नतु पादमध्ये । तत्रोदाहरणम्-श्लोकः । "पान्तु वो नरसिंहस्य नखलाडलकोटयः । हिरण्यकशिपोर्वक्षःक्षेत्रासकर्दमारुणाः ॥१॥" नरसिंहस्य नरसिंहावतारस्य नखलाङ्गलकोटयः नखा एव लागलानि तेषां कोटयः अग्रभागा वो युष्मान् पान्तु रक्षन्तु । कथंभूनाः हिरण्यकशिपो नोदैत्पस्य पदक्षो हृदयं तत्र योऽसावसनो रुधिरस्य कर्दमः पङ्कः तेन अरुणा रक्ताः। एवंविधा नरसिंहरूपधारिणो विष्णोनखरूपहलाप्रभागा इत्यर्थः । पातु व इत्यत्र पादाधभावान प्रतिषेधः । शेषं सुगमम् । पुनर्निषेधान्तरमाह । सूत्रम् ।