________________
गुष्मदस्मत्पक्रिया ॥७॥
(१६१) नस् आदेशः । द्वितीयावतुर्थोषष्ठीतिवक्तव्ये व्युक्रमेण षष्ठीचतुर्थीद्वितीयामिरेत्युक्तत्वात्कचित्त्वया, मयेत्यस्मिन्नर्थे तेमे भवत इत्यादि सूचितम् । यथा श्रुतं ते निखिलं पार्थेत्यादिपयोगेषु । तथाच, कया वृत्त्या वतितं वश्चरदिः क्षेतिमण्डलम् । तथाच, गेये केन विनीतौ वाम् इत्यादिमथमाद्विवचनेऽपि वाम् इयादेशः । केचित्तु, विपर्ययविधानेन नियमो नेष्यते बुधैः । अतो विभकिण्वन्यासु भवन्ति वनसादयः । यद्वा, षष्ठीचतुयोरेनषष्ठया अल्पस्वरत्वात्पूर्वनिपातः। द्विसीयापेक्षया चतुर्था अल्पस्वरत्वात्पूर्वनिपात इति द्वन्द्रः । उदाहरणानि यथा।
स्वामी ते स समायातः स्वामी मे सांप्रतं गतः ॥ नमस्ते भगवन् भूयो देहि मे मोक्षमव्ययम् ॥ स्वामी वां स जहासोच्चैदृष्ट्वा नौ दानयातनाम् ॥ राजा वां दास्यते दानं ज्ञानं नौ मधुसूदनः।। देवो वामवताहिष्णुर्नरकानौ जनार्दनः॥ स्वामी वो बलवान् राजा स्वामी नोऽसौ जनार्दनः ।। नमो वो ब्रह्मविज्ञेभ्यो ज्ञानं नो दीयतां धनम् ॥ सानन्दान्तः प्रपश्यामः पश्यामो नः सुदुःखिनः॥
स्वामीति । स ते तव स्वामी समायातः। मे मम स्वामी सांगतं गतः । अत्र स्वामित्वे षष्ठी । तस्या एकत्वे तेमे इत्यादेशौ दर्शितौ । चतुर्येकवचने दर्शयति । नम इति । भगं ज्ञानमस्यास्तीति भगवान् तस्पामंत्रणं हे भगवन् ! भूयः पुनरपि वारं चारं ते तुभ्यं नमः। अत्र नमःशब्दयोगे चतुर्थी । तत्र युष्मदस्तेआदेशः । मे मझम• क्षयं मोक्षं देहि प्रयच्छ । अत्र दानार्थे चतुर्थी । अस्मदो मेआदेश एकवचनत्वात् । द्विवचनादौ दर्शयति । स्वामी० स वा युवयोः स्वामी उच्चैरतिशयेन जहास अहसत्। किं कृत्वा । नौ आवयोर्दानयातनां पीडां दृष्ट्वा । अत्र षष्ठीद्विवचने युष्मदो वाम, अस्मदो नौ । वा युवाभ्यां राजा भूपतिर्दानं दास्यते मधुसूदनः कृष्णः। नौ आवाम्या जानं तत्त्वावबोधं दास्यते । अत्र चतुर्थीद्विवचनं वा युवाम् विष्णुर्देवोऽवतात् पातु, जनार्दनः कृष्णो नौ आवां नरकाद्रक्षतु । अत्र द्वितीयाद्विवचनं। बहुवचनं दर्शपति।
द्वितीयादिव्यतिक्रमनिर्देशात् प्रथमायामपि भवति । यथा रघुकाव्ये 'एकं दृष्ट्वा वनुःपागि किं वो भीना व्यवस्थिताः' भत्र यूयमर्थे वः । पररूचिस्तु तृतीयायामपि व. । व. कृतं युष्माभिः कृतमित्यर्थः । २ ऐश्वर्यस्य सममस्य रूपस्प यशसः श्रिय. ॥ ज्ञानराग्ययोश्चापि षण्णा भगमितीडना ॥ १ ॥ '
૨૧