________________
(१५६)
सारस्वते प्रथमवृत्तौ। । भ्यसशभ्यम् । भ्यस् (प.ए. साङ्के० श्भ्यम् (म.ए.) हसेपः० युष्मदस्मच्छब्दाभ्यां परं चतुर्थीबहुवचनं तस्य कृत्स्नस्यापि भ्यम् भवति म्पमादेशस्य गुरुत्वात् सर्वस्य प्राप्तौ शफारग्रहणं किमर्थमित्याह । शकारो भकारादित्वनिषेधक उच्चारणमात्रः। शकारो भकारादित्वव्यावृत्त्यर्थः भकार एवं आदिर्यस्य सः भकारादिस्तस्य भावो भकारादित्वं तस्य व्यावृत्त्यर्थः निषेधार्थः। भ्यम् इत्येवं चेत्क्रियते तदाअद्धि, एस्मि बहुत्वे एतयोः सूत्रयोः माधिर्भवति भकारपरत्वात अतस्तनिवारणार्थ 'अभ्यम्' इति क्रियते। तेनाद्रीत्यात्वम्। एस्भिवहुखे इति एत्वं च न भवति । अनेन चतुर्थीबहुवचनस्य भ्यस् । त्यदादेष्टे० मोनु० युष्मम्पम् । अस्मभ्यम् । पञ्चम्पेकवचने त्वन्मदादेशे कृते त्वत्+अस् मत्स्मस् इति स्थिते । सूत्रम् ।
उसिभ्यसो तुः । पञ्चम्या उसिभ्यसो तुर्भवति । शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । त्वत्, मत । युवाभ्याम् , आवाभ्याम् । त्यदादेष्टेः । युष्मत्, अस्मत् ।
उसि भ्यसो तुः । सिश्च भ्यस् च इसिभ्यसौ वयोः (प.द्वि.) स्रो। रतुः (म. ए.) स्रो० पञ्चम्या एकवचनस्य बहुवचनस्य च 'ऋतु' इत्यादेशो भवति । अनेन सिस्थाने तुर्भवति । शकारः सर्वादेशार्थः। उकार उच्चारणार्थः। व इति स्थितम् । त्यदादेष्टे० त्वत् मत् । युवाभ्याम् । आवाभ्याम् । बहुत्वे भ्यम्स्थाने त् । त्यदादेष्टे० । युष्मत् । अस्मत् । षष्ठयेकवचने सूत्रम् ।।
तवमम उसा । उसा सहितयोयुष्मदस्मदोस्तव मम इत्येतावादेशौ भवतःतव,मम । युवावौ द्विवचने। ओसि, एअय् । युवयोः ,आवयोः । सर्वादित्वात्लुट् ।
तवमम उला । तव च मम च तवमम (म.द्वि.) साङ्के । स स्वर० (पृ. ए.) सा अनेन उसूसहितस्य युष्मदस्तव अस्मदो मम इत्यादेशः । तब मम । ओविषये युव आव आदेशे कृते ओसि एअय् स्वर० युवयोः आवयोः । एवं सप्तमीद्विवचनेऽपि आमि त्यदादे० मुडामः स्वर०। युष्म + साम् । अस्म + साम् इति स्थिते सूत्रम् ।
सामाकम् । युष्मदस्मदोः परः सामाकं भवति।त्यदादेष्टेः। युष्माकम्, अस्माकम् । त्वन्मदेकत्वे । ए टाड्यो। एअयू।