________________
हसान्तलिङ्गप्रक्रिया ॥ ४॥
(१३९) एकस्योचारणेन बह्वों लभ्यते तत्सामान्यम् । त्यदादेष्टेरः स्यादौ। दस्य मः।मादृ। अमुक अमुको अमुके। अमुकम् अमुको अमुकान । अमुकेन अमुकाभ्याम अमुकैः । इत्यादि। शेषं सर्वशब्दवद्रूपं ज्ञेयम् । चकारात्तात्परस्योत्वम् । तेन । त्यादेष्टेः। सौ सः।मादू । अमुकः इत्यादि।
॥ इति हसान्तपुल्लिङ्गप्रक्रिया॥४॥ सामान्ये अदस इति । सामान्येऽर्थे विशेषाकथने अज्ञाताद्यर्थे अदस्शब्दत्य का प्रत्ययो भवति स च स्यादिवत् ज्ञेयः स्यादौ परे सति यत्कार्य भवति - स्कार्य कात्येऽपि परे भवति । तेन त्यदादेष्टेरः स्यादौ दस्यमः।मादू । इति भवति स्यादिवचेति चकारात् मथमैकवचने ' असकौ ' इत्यपि रूपं भवति पुसि स्त्रियां च अदसकः प्रत्ययः स्यादिवत्वात् त्यदादेष्टरः स्यादौ । दस्यमः ।मादू । 'अमुक' इति सिद्धम् । ततः स्यादयः । प्रक्रिया सर्वशब्दवत् । इति हसान्ताः पुल्लिङ्गाः ।
इति हसान्तपुल्लिङ्गसाधनं समाप्तम् । अथ हसान्ताः स्त्रीलिङ्गाः प्रदश्यन्ते ॥ तत्र हकारान्त उपानह शब्दः ।
अथ हसान्तस्त्रीलिङ्के किंचिच्छब्दसाधनं लिख्यते । हकारान्त उपानह शब्दः पादपूरणवाचकस्तस्य स्वरादौ स्वर होढ इति ढत्वमाप्तौ तदपवादार्थ रसे पदान्ते च विशेषमाह । सूत्रम्।
नहोधः। नहो हकारस्य धकारादेशी भवति धातोझैसे परे नाम्नश्च रसे पदान्ते च ।वावसाने। उपानत्-उपानद् उपानही उपानहः । खसे चपा झसानाम्। उपानत्सु। हेउपानत्-हेउपानद् हेउपानही हेउपानहः । वकारान्तो दिवशब्दः।
नहो धः । नह (१० ए० ) स्वर० । स्रोध (म० ए०) स्रो० । हवे०। उओ । सिद्धं, वृत्तिः कण्ठ्या । अनेन रसे पदान्ते च हस्प घः । सौ धौ च धत्वे कृते हसेपः । वावसाने । धकारस्य वा तकारदकारौ । झबे जबाः। धस्य दः। स्वर० । सुपि खसे चपा झसानाम् । धस्य तः । स्वर० । शेषं कम्यम् । गोधुक्