________________
( १३८)
सारस्वते प्रथमवृत्तौ ।
ककारः । अत्र पूर्वं विभक्तिकार्यं पश्चान्मादू । टास्थाने तु पूर्वं मादू पश्चाद्विभक्तिकार्यमिति विवेक: । अदस् बहुवचने सर्वादित्वाज्जसी अइए | अमे इति स्थिते । सूत्रम् । एरी बहुत्वे । ए ई बहुत्वे । बहुत्वे सति मकारात्परस्प । अदस एकारस्य ईकारादेशो भवति । अमी । ईकारविधि - I सामर्थ्यान तूकारः । अमुम् अमू अमून् । मत्वोत्वे कृते टाना स्त्रियाम् । अमुना अमूभ्याम् अमीभिः । अदस् ङे इति स्थिते । ङकारो ङित्कार्यार्थः । व्यादेष्टेरः स्यादौ । दस्य मः । सर्वादेः स्मद् । मादू। अमुष्मै । अमूभ्याम् अमीभ्यः। त्यादेष्टेरः स्यादौ । दस्य मः । ङसिरत् । अकः सवर्णे दीर्घः । मादू | अमुष्मात् अमूभ्याम् अमीभ्यः । मादू । क्विलात् ० | अमुष्य अमुयोः अमीषाम् । अमुष्मिन् अमुयोः अमीषु ।
(
एरी बहुवे । एम० ए०) स्रो० ई (म० ए०) साङ्के० नामिनी रः स्वर० । बहुत्वे (स० ए० ) बहुवचने सति अदस शब्दस्य मकारात्परस्य ईकारो भवति अनेन एकारस्य ईकारः अमे इत्यस्य अमी मकारात्परस्येति चेन व्याक्रियते तदा अमुक अमुक इति न सिद्ध्यति । अमि अम्शसोरस्य मादू इति अकारस्य उकारः मोनु० अमुमिति सिद्धम् । द्विवचनं प्रथमाद्विवचनवत् । बहुत्वे अम् शसो ० | सोनः पुंसः शसि । मादू। अमून् । टाविषये मादू । अस्य उः। अमुं। ततः । ठानास्त्रियां अमुना । द्विवचने अद्भीत्यात्वं पश्चन्मादू इत्याकारस्य दीर्घत्वादूकारः अमूम्यामिति सिद्धम् । एवं चतुर्थी, पश्चद्विवेऽपि तृतीयाबहुवचने 'भिस्मस्' इति वचनात् एस्भि। बहुत्वे अमीभिः । एवं [ च० ब० पं० ब० ] अमूभ्यः चतुर्थेक वचने सर्वादेः स्मट् । मादू | किला० । एऐऐ । अमुष्मै पञ्चम्येकवचने । ङसिरत् । अतः इति स्मडागमः । सवर्णे । माहू किला • | अमुष्मात् । षष्ठयेकवचने । ङस् स्य । मादू । क्किला० । अमुष्य ( प० द्वि० ) ( स० द्वि० ; ओसि अकारस्य एकारः । ए अय् । मादू । स्वर० । अमुयोः । आमि सुडागमः । एस्मि० । एरी बहुत्वे | किला० । अमीषाम् ( स ए० ) डि स्मिन् । मादू । क्विला० । अमुष्मिन् । सुपि एस्भि० । एरी० | किला० । अमीषु । त्यदादित्वाद्धेरभावः संबोधनं न भवतीत्यर्थः । पुनर्विशेषमाह ।
सामान्ये अदसः कः स्यादिवच्च । सामान्येऽर्थे वाच्ये सति असूशब्दात्परः कप्रत्ययो भवति स स्यादिवज्ज्ञेयः ।