________________
हसान्त पुंलिङ्गमक्रिया ॥ ४ ॥
( १३७ )
उशनसाम् । उशनस् ( ष० द्वि०) स्वर० उशनम्, पुरुदंशस्, अनेहस् इत्येतेषां शब्दानां धिवर्जितस्य सेर्डा भवति । अनेन सेर्डा भवति । डकारष्टिलोपार्थः । डिति : इति टिलोपः । स्वर० शेषं द्वित्वादौ सुवचस्वत् । उशनसो धौ विशेषमाह । उशनस इति उशनसुशब्दस्य धिविषये नान्तता अन्त्यसकारस्य नकारः । अदन्त ता अकारान्तता च सकारस्य लोपो भवतीत्यर्थः । चकाराद् द्वितीये तु सान्त एव विछतीति धौ रूपत्रयम् । यतः संबोधने तूशनम इति । एकत्र हसेनः । खो० । द्वितीयरूपे सस्य नः । हसेपः । तृतीये तु अदन्तता वक्तव्येति सलोपः । समानाद्धेर्लोपो ऽधातोरिति धेर्लोपः । हेउशनः हेउशनन् हेउशन इति ज्ञेयम् । उशनस्यामित्यत्र स्रो० | हबे | उओ उशनोभ्यां उशनोभिः । उशना शुक्रः । एवं पुरुदंशस्, अनेहस्, प्रभृतयः । पुरदंशाः पुरदंशसौ पुरदंशसः । अनेहा अनेहसौ अनेहसः इत्यादि । अनेहा काढः । अदस् शब्दस्य सकारान्तस्यापि विशेषः । तस्य त्यदादेष्टेरिति सर्वत्राकारः । सौ तु अद स् इति स्थिते सूत्रम् ।
सौ सः ॥ अदसो दकारस्य सौ परे सत्वं भवति ।
सौसः । सि (स०ए०) डेन्रौ टिलोपः स्वर ० सू (म० ए० ) लो० अदसो दकारस्य सौ परे सो भवति अनेन दस्य सः अस् स् इति स्थिते सूत्रम् । सेरौ ॥ अदसः सेरौकारादेशो भवति । असौ । द्विवचने अदस् औ इति स्थिते । दस्य मः । ओ औ औ अमौ इति स्थिते ।
सेरौ । सि (० ए०) ङिति उस्य । स्रो० उओ । रा ( प्र० ए० ) साङ्के० । नामिनो रः स्वर० । अदसः संबन्धिनः स भकारो भवति । अनेन सिस्थाने औ । 1 ओ औ औ असौ इति सिद्धम् द्विवचनादौ त्यदादेष्टेरिति सर्वत्राकारे कृते दस्य म: ' अम् औ' इति स्थिते । ओ औ औ । सूत्रम् ।
मादू । उश्व अश्व ऊ अदसो मकारात्परस्य ह्रस्वस्य ह्रस्व उकारादेशो भवति दीर्घस्य च दीर्घ उकारादेशो भवति । अमू । सर्वादित्वाज्जसी दस्य मः इ ए अमे इति स्थिते ।
O
मादू ॥ म ( पं० ए० ) ङसिरत् । सवर्णे० । उश्च ऊश्च ऊ (म० ए०) साङ्के ० । चपा भने जबाः । सिद्धम् । अदसो मकारात्परस्य ह्त्त्वस्वरस्प दूरव उकारो भवति दीर्घस्य च दीर्घ उकारो भवति । अनेन 'अम् औ' इत्यस्य औकारस्य दीर्घत्वात्
૧