________________
( १३६ )
सारस्वते प्रथमवृत्तौ ।
भावे नैमित्तिकस्याप्यभावः ' इति इकारस्य आकार एव । ततः भातोनपीत्याकारलोपः स्वर० । क्विला० । तस्थुषः । तस्थुषा तस्थिवद्भयामित्यादि । एवं गतः इति जग्मिवान् जग्मिवांसौ जग्मिवांसः । जग्मिवांसं जग्मिवांसौ । गमां स्वरे । जग्मुषः । जग्मुषा जग्मिवद्धयामित्यादि । अथवा जगन्वसंशब्दः । गम् वस्प्रत्ययः । द्वित्वं । मोनो धातोः । जगामेति जगन्वान् शसादौ स्वरे परे 'निमित्ताभावे नैमित्तकस्पाप्यभावः' इति नकारस्य मकार एव । गम स्वरे जग्मुषः । जग्मुषा जगन्वद्भय जगन्वद्भिरित्यादि । एवं पेचिवान पेचिवांसौ पेचिवांसः । पेचिवांसं पेचिवांसौ पेचुषः । पेचुषा पेचिवद्धयामित्यादि । उखासंम्पर्णध्वंसादीनां तु रसे पदान्ते च वस रसे इति दत्वम् | स्वरादौ स्वर० । उखाखत् उखास्रंसौ उखास्रंसः । उखाखद्भयां उखार्खाद्भः । उखास्रत्सु । एवं पर्णध्वत् पर्णध्वंसौ पर्णध्वंसः इत्यादि । सकारान्तः सुवचसूशब्दः । वच् परिभाषणे सुपूर्वः । वचादेरस | स्वर० । नामत्वात्स्यादयः । ततः सौ परे अत्वसोः सावितिदर्घिः । इसे पः । त्रो० । धौ हसे प:० । स्रो० स्वरादौ सर्वत्र सुपि च स्वर० । भकारादौ स्रो० । हबे उभो । शेषं सुकरम् । एवं चन्द्रमस्शब्दः । चन्द्रमाः चन्द्रमसौ चन्द्रमसः । चन्द्रमः । चन्द्रमोभ्यां चन्द्रमस्तु । एवं वेधाः वेधसौ वेधसः । दुर्भेधाः दुर्मेधसौ दुर्मेधसः इत्यादि । एवं प्रचेतस, जातवेदस, उच्चैःश्रवस, सुमनस् सुतेजस प्रभृतयः । उशनसादीनां सौ विशेषः । सूत्रम् ।
उशनसाम् ॥ उशनस् पुरुदंशस् अनेहस् इत्येतेषां सेरघेर्डा भवति । डित्त्वाट्टिलोपः । उशना उशनसौ उशनसः । उशनसम् उशनसौ उशनसः । उानसा उशनोभ्याम् उशनोभिः । उशनस्सु उशनःसु इत्यादि । उशनसो धौ नामतताऽदन्तता वा वक्तव्या । हेउशनन- हे उशन - हेउशनः उशनसी उशनसः । उभयविकल्पे रुपत्रयम् । संबोधने तूशनसस्त्रिरूपमिति वचनात् । पुरुवंशा पुरुवंशलौ पुरुदंशसः इत्यादि । अनेहा अनेहसौ अनेहसः । अनेहसम् । हे अहः इत्यादि । अदस्शब्दस्य भेदः । व्यादेष्टेः इति I सर्वत्राकारः । अद् सि इति स्थिते ।
१ सु सु अवसंसने इत्येताभ्या यथासंख्यमुखापर्णशब्दपूर्वाभ्या किंपि 'नो लोप' इति नलोपे, उखा कात् २ पर्णध्नत् इति प्रथमैकवचनरूपसिद्धि: । एग्ममेऽप्यूयम् ।