________________
हसान्त पुंलिङ्गमक्रिया ॥ ४ ॥
( १२९)
भवद्भयाम् भवद्भिः । भवत्सु इत्यादि । हेभवन् हेभवन्तौ हेभवन्तः । एवं पचच्छब्दः । पचन् पचन्तौ पंचन्तः । पचन्तम् पचन्तौ पचतः । पचत्सु इत्यादि । हेपचन हेपचन्तौ हेपचन्तः । एवं पठत्कुर्वद्वददादयः ।
अत्वसोः सौ | अनुश्च अस् च अत्वसौ तयोः अत्वसोः (१० द्वि०) स्वर० । स्रो० | सि (स०ए०) डेरौ डित् । सिद्धम् । अत्वन्तरूपेत्युकारानुबन्धस्य असन्तस्येति नुमागमरहितासन्तस्य शब्दस्य धिवर्जिते सौ परे दीर्घो भवति । अनेन सौ दीर्घो भवति न धौ धिवर्जिते इति विशेषणात् । धौ हसेपः ० । संयोगान्तस्य लोपः । हे भवन् पक्षे हे भोः । अन्यत्र नश्चा० । स्वरादौ सुपि च स्वर० । भकारादौ झबे जबाः । शेषं सुकरम् । एवं अष्ठीवत् चक्रीवत्, कक्षीवत्, शब्दाः । ऋकारानुबन्धो भवतृशब्दः । ' भूशतृशानौ तिप्तेवत्क्रियायाम् ' इति शतृप्रत्ययः । अत्प्रत्ययः । अपूकर्त्तरि गुणः । ओ अव् स्वर० भवत् इति तस्य ऋकारामुबन्धत्वात् त्रितो नुमिति नुमागम एव स्यात् । परं, अत्वन्तत्वाभावात् अत्वसोः साविति दीर्घत्वं न । शेषं सुगमम् । एवं पचत् शब्दः । पचत् शब्दोऽपि ऋकारानुबन्ध इत्यर्थः । शतृप्रत्ययान्तेषु द्विरुक्तानां जक्षत्यादीनां च विशेषमाह ।
द्विरुक्तानां जक्षादीनां च शतुर्नुम्प्रतिषेधः पुलिने नित्यं वक्तव्यो नपुंसके वा शौ च । दधत् दधद् दधतौ दधतः । दधतम् दधतौ दधतः । दधता दधद्भ्याम् दधद्भिः । इत्यादि । नपुंसके, दधत् दधद् दधती दधति - दधन्ति । जक्ष जागृ दरिद्रा शास् दीधीवेवी चकास् एते जक्षादयः । शकारान्तो विग्शब्दः । छशषराजादेरिति षत्वम् । षो ङः इति डत्वम् । वावसाने । विट् - विड् विशौ विशः । विशम् विशौ विशः । I विशा विड्भ्याम् विङ्गिः । इत्यादि । हेविट् - हेविड् हेविशौ हेविशः । षकारान्तः षष्ाब्दो नित्यं बहुवचनान्तस्त्रिषु सरूपः । षष् जस् इति स्थिते । जगासोर्लुक् । षो डः । वावसाने । षट् षड् षट् षड् षड्भिः षड्भ्यः षड्भ्यः । ष्णः ' इति नुट् । षो डः । षड् नाम् इति स्थिते ।
१७