________________
(१२८)
सारस्वते प्रथमवृत्तौ। (१० ए०) स्वर० । स्रो० । सप् + महत् । अमेत्रमा वा । पस्प मा स्वर नधिः अधिस्तस्मिन् अधौ ( स०ए० नौ डित् । ठिलोपः । स्वर० । अतोत्युः । उयो । एदोतीतः । दीघेः (म० ए०) स्रो० ॥ शि (स० ए० गौ हित् । । टिलोपः। च (म० ए०) अव्य० । सन्तस्येति मुहिन्म शब्दं विहाय नुमागमसहितसकारान्तस्य तथा अपशब्दस्य जलवाचिनो नित्यं बहुवचनान्तस्य तथा महतशब्दस्य उकारानुबन्धस्य पुंसि पञ्चस वचनेषु विजितेषु नपुंसके शौ च दीपो भवति प्हस्वदीर्घप्तता विधीयमानाः स्वरस्थाने भवन्तीविन्सादीनां व्यञ्जनसनिकृष्टस्य स्वरस्य दीर्घा भवतीत्यर्थः । अपशब्दो बहुत्वे एव तत्र असमासान्तस्प जसि दीर्घो नान्यत्र समासान्तस्य पञ्चस्वेव इयं विवक्षा यथा शोभना आपो यत्र स स्वापु देशः । स्वाप स्वापी स्वापः । स्वापं स्वापौ । इति नपुंसके शौ स्वर स्वपी स्वापि, सरांसि इति । अनेन घिर्जितेषु पञ्चसु दीर्घः। धौ तु नुमागम एव न दीर्घः । हसेपः । संयोगान्तस्येति सौ धौ च वकारस्य लोपः। शेषेषु नश्चापदान्ते झसे स्वर० । शसादौ स्वरे स्वर । भकारादौ झबे जबाः । स्वर० । शेष सुगमम् । तकारान्त उकारानुबधो भवच्छन्दः । मा दीप्तौ भावेर्डवतुः यतः भातेस्तु डवतुः परः। भवान् पूज्ये युष्मदर्थे इति तस्य पञ्चस बितो नुमिति नुमागमः। वतः। सूत्रम् ।
अत्वसोः सौ ॥ अत्वसोः सौ इति धातोर्नेष्यते । अत्वन्त स्यासन्तस्य च दीर्घा भवति धिवर्जिते सौ परे । भवान भवन्तौ भवन्तः । भवन्तम् भवन्तौ भवतः । भवता भवद्याम् भवद्भिः । भवते भवद्याम् भवद्भयः । भवतः भवद्याम् भवद्भयः। भवतः भवतोः भवताम् । भवति भवतोः भवत्सु । हेभवन हेभवन्तौ हेभवन्तः । असन्तस्येत्यसुप्रत्ययान्तस्येति विवक्षितम् । तेन पिण्डं असतीति पिण्डयः पिण्डग्रसौ पिण्डयसः । पिण्डग्रसम् पिण्डग्रसौ पिण्डयसः इत्यादि । ऋकारानुवन्धस्य नुमागम एव । अस्वन्तत्वाभावान्न दीर्घः । नितो नुम्। संयोगान्तस्य लोपः भवन भवन्तौ भवन्तः । भवन्तम् भवन्तौ भवतः। भवता