________________
हसान्तपुंलिङ्गप्रक्रिया ॥ ४ ॥
( १२५ )
नाञ्चेः पूजायाम् । अलुप्तनकारत्वात् पश्ञ्चच न नुम् । तेन प्रत्यक् प्रत्यश्चौ प्रत्यञ्चः । मत्यञ्चम् । प्रत्यश्चा प्रत्यद्भ्यां मत्यभिः । प्रत्यञ्चे सप्तमीबहुवचने विशेषमाह सूत्रम् ।
णोः कुक् टुक्शरि वा ॥ ङकारणकारयोः कुकटुकावाग्रमौ वा स्तः शरि परे । प्रत्यक्षु - प्रत्यषु । तिर्यच्शब्दस्य भेदः । तिर्यङ् तिर्यञ्चो तिर्यञ्चः । तिर्यञ्चम् तिर्यञ्चौ ।
ङ्गोः कुक् टुक् शरि । अनेन वा कुगागमः । प्रत्यक्षु-प्रत्यषु । इत्यादि । एवं माङ् प्राञ्चौ प्राञ्चः । प्राञ्चं प्राञ्चौ प्राञ्चः । माञ्चा प्रायां प्राद्भिः । गत्यर्थं - स्य तु शसादौ प्राचः । प्राचा । तिर्यच् उदच् शब्दयोः पञ्चसु प्रत्यचूशब्दवत् । शसादौ तु विशेषः सूत्रम् ।
तिरश्वादयः । तिरश्वादयः शब्दा निपात्यन्ते शसादौ स्वरे परे तद्धिते ईपि ईकारे च । तिरश्चः । तिरश्वा तिर्यग्भ्याम् 1 तिर्यग्भिः । तिर्यक्षु । हेतिर्यङ् हेतिर्यञ्च तिर्यञ्चः ।
तिरश्चादयः । तिरश् आदिर्येषां ते तिरश्चादि (प्र० ब०) एभजसि । ए अय् । स्वर० । स्रो० । तिरश्चादय इति । तिर्यच् उदच, सभ्यच, सम्यच, शदानां यथाक्रमं तिरच, उदीच, सभीच, समीच, इत्यादेशा निपात्यन्ते शसा - दौ स्वरे परे तद्धिते प्रत्यये ईपि ईकारे च । तद्धिते यथा तिरचीनः । ईपि तिरची । ईकारे तिर्थक् तिरची तिर्यश्चि । अत्र अनेन शसादौ स्वरे परे तिर्थच् शब्दस्य तिरश्च उदच्शब्दस्य उदीच् । स्वर० । भकारादौ । चोः कुः । झबेजबाः । सुपि च । चोः कुः । क्किलात्षः स० इति प्रत्यग्वत् । सर्वनाम्नो विष्वग्देवशब्देभ्य श्च परस्याञ्चतेर्विशेषमाह सूत्रम् ।
विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये ॥ अनयोः सर्वनाम्नश्च टेरद्रयादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अमुं अवतीति विग्रहे । अदसष्टेरद्रयादेशः ।
विष्वगित्यादि । अदस् अञ्च् इति स्थिते अनेन अद्र्यादेशे च । सूत्रम् अदसो ऽसेर्दादु दो मः ॥ अवसोऽसान्तस्य दात्परस्य उदूतौ