________________
सान्त पुंलिङ्गमक्रिया ॥ ४ ॥
युजेरसमासे ॥ युजेः सुटि नुम् स्यादसमासे । युजेरसमासे । स्पष्टम् । अनेन नुमागमः ।
( १२१ )
क्विन्प्रत्ययस्य कुः ॥ किन्नन्तस्य धातोः कवर्गान्तादेशः स्यादसमासे झलि पदान्ते च । प्रत्ययशब्देन प्रत्ययान्तस्य ग्रहणम् । युङ् । अनुस्वारपरसवर्णों । युञ्जौ युञ्जः । युजम् युञ्जौ युजः। युजा युग्म्याम् युग्भिः । युजे युग्म्याम् युग्म्यः । चोः कुः । खसे चपा० । क्किलात् ० । कषसंयोगे क्षः । युक्षु | हेयुङ् हेयुञ्जौ हेयुञ्जः इत्यादि । असमासे किम् । अश्वयुक्-अश्वयुग् अश्वयुजी अश्वयुजः । अश्वयुजम् अश्वयुजो अश्वयुजः । अश्वयुजा अश्वयुग्भ्याम् अश्वयुग्भिः इत्यादि । समाध्यर्थस्य युजेर्न नुम् । युक् समाधिमानित्यर्थः । दकारान्तो द्विपाशब्दः । द्विपाद् द्विपात् द्विपादौ द्विपादः । द्विपादम् द्विपादौ ।
1
क्विन्प्रत्ययस्य कुः ॥ अनेन कुत्वं युङ् युक्षौ युञ्जः । इत्यादि । डान्वा अमतीताः । दकारान्तानाह । सुपाच्छब्दस्य शसादौ विशेषमाह सूत्रम् ।
पादः पत् ॥ पाच्छब्दस्य पदादेशः स्याच्छसादौ स्वरे परे तद्धिते ईपि ईकारे च । द्विपदः । द्विपदा द्विपाद्रयाम् द्विपाद्भिः । द्विपदे द्विपायाम् द्विपाद्भयः । हेद्विपात् - हे द्विपाद हे द्विपादौ हेडिपादः । दकारान्तास्त्यतद्यद्एतद् शब्दाः । स्यद् सि इति स्थिते ।
पादः पत् । सुगमम् । दकारान्तास्त्यदादयस्तेषां त्यदादेष्टेरः स्पादावित्यकारे कृते सर्वत्र सर्वशब्दवत् । सौ तु विशेषः सूत्रम् ।
स्तः ॥ स् तः । त्यदादेस्तकारस्य सत्वं स्यः त्यौ त्ये । त्यम् त्यौ त्यान् । त्येन
१६
भवति सौ परे । त्याभ्याम् त्यैः ।