________________
हसान्तलिङ्गप्रक्रिया ॥४॥ (११३) ऋभुक्षाणो अभुक्षः। प्रभुक्षा । पां टे। प्रभुक्षिा प्रभुक्षिमिः। प्रभुक्षे इत्यादि। दण्डिनशब्दस्य भेदः। सूत्रम् ।
इनां शौ सौ ॥ इन हन पूषन अर्यमन इत्येषां शौ सौ चाधौ परे उपधाया दीर्घो भवति । दण्डी दण्डिनौ दण्डिनः । दाण्डिनम् दण्डिनौ दण्डिनः । दण्डिना दण्डिभ्याम् दण्डिभिः । दण्डिने दण्डिभ्याम् दण्डिभ्यः । दण्डिषु इत्यादि । हेदण्डिन हेदण्डिना हेदण्डिनः । ब्रह्महा ब्रह्महणौ ब्रह्महणः । ब्रह्महणम् ब्रह्महणौ । अल्लोपः स्वरे ।
इनां शौ सौ। इन् (१० ब० ) स्वर० । मोनु । शि ( स० ए०) हेरी डित् । सि (स० ए०) रौ० । सिद्धम् । इन् इन्मत्ययान्तइनित्युपलक्षणत्वाद्विन्मत्ययान्तोऽपि हन्धातुः ब्रह्म, भ्रूण, वृत्रायुपपदपूर्वः । विप्मत्ययान्तः । पूषन् सूर्यवाची । अर्यमन् सूर्यवाची । इत्येतेषां शौ नपुंसके जश्शसोः स्थाने जाते शौ च प्रथमैकवचने धिवजिते परे दीर्थों भवति । नोपधाया इत्यनेन सिद्धौ सत्यामिनामिति सौ परे एव दीर्घः स्यान तु पंचस्विति नियमार्थमुक्तम् अनेन सौ दीर्घः । हसेपः । नानो । स्वरादौ सर्वत्र स्वर । रसे च नानोनो । सपि किला । धौ अधाविति विशेषणान नलोपश्दीौं । हेदण्डिन् । शेषं सुकरम् । बमहन्शब्दस्य दण्डिन्शब्दवत् । ब्रह्महा ब्रह्महणौ अकुम्वन्तरेऽपीति णत्वम् । बमहणः । ब्रह्महणं ब्रह्महणौ । शसादौ त्वल्लोपः स्वरे इत्यलोपे कृते सूत्रम् ।
हनो ने ॥ हनः घ् ने । हन्तेर्धातोर्हकारस्य घत्वं भवति अव्यवधाने नकारे परेऽव्यवधाने निति
णिति च परे । घसंयोगो णत्वनिषेधार्थः । हनोने । हन् (ष० ए०) स्वर० स्रो०। (म० ए०) हसेपः०।हये। उओ।न (स० ए०) अइए । सिद्धम् । हन्तेरिति 'हन्' इत्यस्य धातोः सम्बन्धिनो हकारस्य धत्वं भवति नकारे परे तथा मिति णितिच परे। अनेन हस्य घः।स्वर हस्य घत्वे कृवे घसंयोगः 'ह!णोनन्ते ' इति णत्वनिषेधार्थः । सूत्रम् ।
हन्तेरत्पूर्वस्य ॥ हन्तेरकारपूर्वस्यैव नस्य णत्वं स्यान्नान्य