________________
हसान्तलिङ्गमक्रिया ॥ ४॥ मघवतः । मघवता मघवद्याम् मघवद्भिः । मघवते मघव
याम् मघवद्भयः इत्यादि। हे मघवन हे मघवन्तौ हे मघवन्तः ॥ “स किल संयुगमूनि सहायतां मघवतः प्रतिपद्य महारथः ॥” इति प्रयोगदर्शनात् ।
श्वादेवा आदिर्यस्पासौ श्वादिस्तस्य (१० ए०) डिति उसस्य । लो। श्वादेरिति श्वन, युवन, मघवन् शब्दसम्बन्धी वकार उत्वमुकारभावं प्राप्नोतीति भावः । शसादौ स्वरे परे ईपि च । ईपि प्रत्यये परे तु शुनी मघोनी इति भवति । वकारेण सहितः अकारः वकारः इति सस्वरस्यापि वकारस्यानेन उकारः। स्वर०। शसादौ स्वरादौ सर्वत्र उकारः। भकारादौ सुपि च नानो नो लोपशचौ । संबोधने राजन्शब्दवत् । श्वा श्वानौ श्वानः । श्वानं श्वानौ शुनः। शुना श्वभ्यां श्वभिः। शुने श्वभ्यां श्वभ्यः । शुनः श्वभ्यां श्वभ्यः। शुनः शुनोः शुनाम् । शुनि शुनोः श्वसु । हेवन् हेश्वानौ हेचानः । युवा युवानी युवानः । युवानं युवानौ । युवन् शब्दस्य शसादौ ' श्वादेः' इति उत्वे कृते सवर्णे । मघवनशब्दे तु उकारे कृवे उओ । यूनः । यूना । मघोनः । मघोना मघवम्यां मघवभिः । इत्यादि ज्ञेयम् । तकारान्तमघवच्छब्दस्य तु मघवान् मघवन्तौ मघवन्तः। मघवन्दं मघवन्तौ मघवतः । मघवता मघवद्याम् मघवद्धिारत्यादि रूपाणि। सूत्रम् । ।
अर्वणस्त्रसावनञः। नन्वर्जस्यार्वणस्तृ इत्यन्तादेशः स्यादसौ विभक्तौ परतः। अर्वा अर्वन्तौ अर्वन्तः । अर्वन्तम् अर्वन्तौ अर्वतः। अर्वता अवघ्याम् अर्वद्भिः । अर्वते अर्वद्भयाम् अवयः इत्यादि । हेअर्वन हेअर्वन्तौ हेअर्वन्तः । नवर्जस्थति किम् । नोपधायाः । अनर्वा अनर्वाणौ अनर्वाणः । अनर्वाणम् अनर्वाणौ अनर्वणः । अनर्वणा अनर्वभ्याम् अनर्वभिः । अनर्वसु इत्यादि। पथिनशब्दस्य भेदः। अर्वणस्त्रतावनञः। वृत्या मुगमम् । पथिन्शब्दस्य भेदः । सूत्रम् ।
इतोऽत्पञ्चसु ॥ इतः अत् पञ्चसु । पञ्चसु स्यादिपु पथ्यादीनामिकारस्याकारो भवति ।