________________
(११०"
सारस्वते प्रथमवृत्तौ । सुधर्माणम् सुधर्माणी सुधर्मणः । सुधर्मणा सुधर्मभ्याम् सुधर्मभिः इत्यादि। हे सुधर्मन हे सुधर्माणौ हे सुधर्माणः । श्वयुवन्मघवनशब्दानां पञ्चसु राजनशब्दवत्त्रक्रिया । श्वा श्वानौ श्वानः । श्वानम् श्वानौ ।
जमोजः । जश्च भश्च जत्रो तयोर्जकारप्रकारयोर्योंगे जो भवतीत्यर्थः । अनेन जलयोगेशः । स्वर । स्रो० । यविषयेऽप्येवम्। भकारादौ नानो० ॥ ततो लोपशि पुनर्न सन्धिरिति कारणात् 'अद्धि' इति सूत्रेण आकारो न भवति। अधाविति विशेषणात् धौ न नकारलोपश् । स वेड्यो । सुपि नानो । एवं यज्जन, आत्मन, सुधर्मन, सुपर्वन, प्रभृतयोऽपि साध्याः। परं शसादौ अम्वयुक्तादिति विशेषणात् मकारवकारयुक्तत्वात् अल्लोपो नास्ति तेन यज्वनः, यज्वना इत्यादि। उक्षन्मूर्धन शब्दौ तु राजन्वत् श्वन्युनिति । श्वा कुर्कुरवाची युवा तरुणवाची मघवा इन्द्रवाची इत्येतेषां शब्दानां पञ्चसु स्यादिवचनेषु राजन् शब्दवत साधना । शसादौ तु विशेषस्तमेवाह । सूत्रम् ।
श्वादेः॥श्वादेर्वकार उत्व प्राप्नोति शसादौ स्वरे परे तद्धिते ईपिईकारे च । तद्धिते स्वरे तुन भवति । अत्र नियामक पाणिनीयसूत्रम्। श्वयुवमघोनामतद्धिते । तेन माधवनमिति भवति । शुनः । शुना श्वभ्याम् श्वभिः । शुने श्वभ्याम् श्वभ्यः। शुनः श्वभ्याम् इत्यादि । हेवन हेश्वानी हेश्वानः । युवा युवानौ युवानः । युवानम् युवानौ । युवनशब्दस्य वकारस्योत्वे कते । सवर्णे दीर्घः सह । यूनः।यूना युवभ्याम युवभिः । यूने युवभ्याम् युवम्यः इत्यादि। हेयुवन् हेयुवानी हेयुवानः । मघवा मघवानौ मघवानः । मववानम् मघवानौ । मघवन्हाब्दस्योत्वे कते । उओ। मघोनः । म घोना मघवभ्याम् मघवभिः मघोने मघवभ्याम् मघवभ्यः। इत्यादि । हे मघवन हेमघवाना हे मघवानमा मघवच्छब्दस्य तु । मघवान् मघवन्तौ मघवन्तः । मघवन्तम् मघवन्तौ