SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ( १०४ ) सारस्वते प्रथमवृत्ती | दबानां क्रमेण झघभा भवन्ति सकारे ध्वे च परे । आख्याते आत्मने पदे से, ध्वे ध्वंसंबन्धिनः परे नाम्नश्च रसे पदान्ते च । केचित्तु जस्तीति जप् जभौ नभः इत्यादौ प्रयोगे जकारस्य झकारासंभवात् आदिजबानां झभान्तस्य झमासवाः इत्येवं सूत्रं पठन्ति अनेन यत्र रसमत्याहारस्तत्र दस्य धः । सूत्रम् । वावसाने || अवसाने वर्तमानानां झसानां जबा भवन्ति ॥ चपा वा । वावसाने | वा (म० ए० ) अव्य० | अवसान (स० ए० ) अइए । सव० । सिद्धम् । अग्रे वर्णानामभावोऽवसानं तस्मिन्नवसानेऽन्ते वर्तमानानां समानां जबा भवन्ति पक्षे विकल्पेन चपा भवन्ति । अवसानलक्षणमाह सूत्रम् । विरामोऽवसानम् ॥ वर्णानामभावोऽवसानसंज्ञः स्यात् । गोधु - गोधुग् गोदुहाँ गोदुहः | गोदुहम गोदुहौ गोदुहः । गोदुहा | भकारादौ 'दादेर्घः' इति घत्वे कृते आदिजबानामित्यनेन दकारस्य धकारे कृते झबे जबाः । गोधुग्भ्याम् गोधुग्भिः । गोदुहे गोधुग्भ्याम् गोधुग्म्यः । गोदुहः गोधुग्भ्याम् गोधुग्भ्यः । गोदुहः गोदुहोः गोदुहाम् । गोदुहि गोदु होः । गोधुघ् सुप् इति स्थिते • खसे चपा झसानाम्' इति ककारः । पश्चात् ' विलात्पः सः कृतस्य ' इति षत्वम् । विरामोऽवसानम् । सुगमम् एतद् । अनेन सौ धौ च रूपद्वयं विधाय हसेप इति सिलोपे कृते एकत्र घस्य कः अन्यत्र गः । स्वरादौ स्वर० । सकारा विभक्तौ तु दादे इति घस्वे कृते आदिजनानामिति दस्य धः । ' झमे जबाः' इति घस्य गः । स्वर० । सुपि दादेर्घः । आदिजबानाम् । खसे चपा झसानाम् । किलात्षः सः कृतस्येति षत्वम् । कषसंयोगे क्षः ॥ ककारषकारसंयोगे क्ष इत्यक्षरं भवति । गोधुक्षु । हे गोधुक हे गोधुग हे गोदुहौ हे गोदुहः । मधुलि - हशब्दस्य भेदः । कषसंयोगे क्षः । ककारषकारसंयोगे क्षो भवति । गोधुक्ष्विति सिद्धम् । लिहू
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy