________________
।
AC
[५] तत् परं पुरुषख्यातेर्गुणवतृष्ण्यम् ॥ १-१६ ॥
भाष्यम्---दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषः दर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तवयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् । तस्योदये प्रत्युदितख्यातिरे मन्यते-प्राप्तं प्रापणीयम् , क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः, यस्याविच्छेदाजनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैव परा काष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यमिति।
(य०) विषयदोषदर्शनजनितमापातधर्मसन्यासलक्षणं प्रथमम् , सतत्त्वचिन्तया विषयौदासीन्येन जनितं द्वितीयापूर्वकरणभावितात्विकधर्मसन्यासलक्षणं द्वितीयं वैराग्यम्, यत्र क्षायोपशमिका धर्मा भपि तीयन्ते क्षायिकाश्चोत्पचन्ते इत्यस्माकं सिद्धान्तः ॥ वितर्कविचारानन्दास्मितारूपातुगमा
संप्रज्ञातः ॥ १-१७॥ अथासंप्रज्ञातः समाधिः किमुपायः किस्वभावो वा इति. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः।१-१८॥
भाष्यम्-सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य १ 'पुरुषदर्शनाभ्या' इत्यपि ।
-