________________
[ ६ ] समाधिरसंप्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो झभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक श्रालम्वनीक्रियते, स चार्थशून्यः । तदभ्यासपूर्व चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसंप्रज्ञातः ।।
( o ) द्विविधोऽप्ययं अध्यात्मभावनाध्यानसमतावृत्तिक्षयभेदेन पश्चधोक्तस्य योगस्य पश्चमभेदेऽवतरति । वृत्तिक्षयो ह्यात्मनः कर्मसंयोगयोग्यतापगमः, स्थूलसूक्ष्मा ह्यात्मनश्चेष्टा वृत्तयः, तासां मूल हेतुः कर्मसंयोगयोग्यता, सा चाकरणनियमेन प्रन्थिभेदे उत्कृष्टमोहनीयबन्धव्यवच्छेदेन तत्तद्गुणस्थाने तत्तत्प्रकृत्यात्यन्तिकबन्धव्यवच्छेदस्य हेतुना क्रमशो निवर्तते । तत्र पृथक्त्ववितर्कस विचारैकत्ववितर्काविचाराख्यशुक्लध्यानभेदद्वये संप्रज्ञातः समाधिर्वृत्त्यर्थानां सम्यग्ज्ञानात् । तदुक्तम् - " समाधिरेष एवान्यैः संप्रज्ञासोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा ॥ १ ॥ ( ४१८ यो. वि. ) निर्वितर्कविचारानन्दास्मितानिर्भामस्तु पर्या - यविनिर्मुक्तशुद्धद्रव्यध्यानाभिप्रायेण व्याख्येय (यः), यन्नयमालम्ध्योकम्-" का अरेइ के आणंदे ? इत्थं पि श्रहे चरे " इत्यादि । क्षपकश्रेणिपरिसमाप्तौ केवलज्ञानलाभस्त्वसंप्रज्ञातः समाधिः, भावमनोवृत्तीनां प्राह्यग्रहणाकार शालिनीनामवग्रहादिक्रमेण तत्र सम्यपरिज्ञानाभावात् । अत एव भावमनसा संज्ञाऽभावाद् द्रव्यमनमा ? १ भाचारात १-३-३ पृ. ६ का अरतिः क आनन्दः
अत्रापि
चरेत् |
"