________________
[ ३ ] वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ १-५ ॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १-६ ॥ तंत्र प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १-७ ॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्टम् ॥ १८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥१-६॥ श्रभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १-१० ॥ अनुभूतविषयासंप्रमोषः स्मृतिः ॥ १-११ ॥
भाष्यम् - किं प्रत्ययस्य चित्तं स्मरति श्रहोस्विद्विषयस्य । इति । ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः तथाजातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनः तदाकारामेव ग्राग्रहणोभयात्मिकां स्मृति जनयति । तत्र ग्रहणाकारपूर्वा बुद्धि:, ग्राह्याकारपूर्वा स्मृतिः । सा च द्वयी - भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वमे भावि - तस्मर्तव्या । जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वाचैता वृत्तयः सुखदुःखमोहात्मिकाः, सुखदुःखमोहाच क्लेशेषु व्याख्येयाः । सुखानुशयी रागः । दुःखानुशयी द्वेषः । मोहः
१ एतत्पदं मुद्रितपुस्तके न दृश्यते