________________
[२] प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति।तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्चर्योपगं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत् परं प्रसङ्घयानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविपया शुद्धा चानन्ता च; सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिः इत्यतस्तस्यां विरक्तं चित्तं तामपि ख्याति निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्वीजः समाधिः । न तत्र किञ्चिद संप्रज्ञायत इत्यसंप्रज्ञातः।
(य०) सर्वशब्दाग्रहणेऽप्यर्थात्तल्लाभादव्याप्तिः संप्रज्ञात इति " लिष्टचित्तवृत्तिनिरोधी योगः” इति लक्षणं सम्यग, यद्वा " समितिगुप्तिसाधारणं धर्मव्यापारत्वमेव योगत्वम्" इति स्वस्माकमाचार्याः । तदुक्तम्-" मुक्खेण जोयणायो जोगो सब्बो वि धम्मवावारो" [ योगविंशिका, गा० १ ] तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १-३॥ वृत्तिलारूप्यमितरत्र ॥ १-४ ॥
१ सत्त्वपुरुपान्यतास्यातिमात्रं चित्तं धर्ममेघपर्यन्तं । २ विवेकख्यातेः योधकमेतत्पदम् ॥