________________
[ ५७] भेदाः, 'अयं ' च पञ्चप्रकारोऽप्याशयो भावः, अनेन विना 'चेष्टा' कायवाड्मनोव्यापाररूपा द्रव्यक्रिया 'तुच्छा' असारा अभिलपितफलासाधकत्वादित्येतदर्थः ॥ अथ के ते प्रणिधानाधाशयाः ? उच्यते-प्रणिधानं प्रवृत्तिर्विमजयः सिद्धिर्विनियोगश्चेति पञ्च, आह च-"प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि-विनियोगभेदतः प्रायः । धर्म राख्यातः, शुभाशयः पञ्चधात्र विधौ ॥" (पो० ३-६) इति । तत्र हीनगुणद्वेपाभावपरोपकारवासनाविशिष्टोऽधिकृतधर्मस्थानस्य कतव्यतोपयोगः प्रणिधानम् , उक्तं च-" प्रणिधानं तत्समये, स्थितिमत्तधः कृपानुगं चैव । निरवद्यवस्तुविषयं, परार्थनिप्पत्तिसारं च ॥" ( पो० ३-७) 'तत्समये' प्रतिपन्नधर्म स्थानमर्यादायां 'स्थितिमत्' अविचलितस्वभावम् , 'तदधः' स्वप्रतिपन्नधर्मस्थानादधस्तनगुणस्थानवर्तिपु जीवेषु 'कृपानुगं' करणापरम् . न तु गुणहीनत्वात्तेषु द्वेपान्नितम् , शेपं सुगमम् ।। अधिकृतधर्मरथानोद्देशेन तदुपायविपय इतिफर्तव्यताशुद्धः शीघ्रक्रियासमाप्तीच्छादिलक्षणोत्सुस्यविरहितः प्रयत्नातिशयः प्रवृत्तिः, आह च-"तत्रैव तु प्रवृत्तिः, शुभत्तारोपायसङ्गतात्यन्तम् । अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव ।।" (पो० ३-८) 'तत्रैव ' अधिकृतधर्मस्थान एव शुभ:-प्रकृष्टः सारो-नैपुण्यान्वितो य उपायस्तन संगता ॥ विनजयो नाम विघ्नस्य जयोऽस्मादिति व्यु