________________
॥ अर्हम् ॥
श्रीमद्-हरिभद्रसूरिसंदर्भिता श्रीमद्यशोविजयोपाध्यायविरचितव्याख्यासंघलिता
योगविशिका।
॥ ऐ नमः ॥ अथ योगविंशिका व्याख्यायतेसुक्खेण जोयणाओ, जोगो सम्वो विधम्मवावारो। परिसुद्धो विन्नेओ, ठाणागओ विसेसेणं ॥१॥
'मुस्खेण 'त्ति । ‘मोक्षण' महानन्देन योजना 'सर्वोऽपि धर्मव्यापारः' साधोरालयविहारभाषाविनयभिवास्नादिक्रियारूपो योगो विज्ञेयः, योजनाद्योग इति व्युत्यत्यानुगृहीतमोक्षकारणीभूतात्मव्यापारत्वरूपयोगलक्षणस्य सर्वत्र घटमानत्वात् । कीदृशो धर्मव्यापारो योगः ? इत्याह'परिशुद्धः' प्रणिधानाद्याशयविशुद्धिमान्, अनीदृशस्य द्रव्यक्रियारूपत्वेन तुच्छत्वात् , उक्तं च-"आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना, चेष्टा
द्रव्यक्रिया तुच्छा ।।" (पोडशक ३-१२) 'एते' प्रणिधा। नादयः सर्वेऽपि कथञ्चित्क्रियारूपत्वेऽपि तदुपलक्ष्या आशय