________________
[ ४५ ] तादृशस्य कल्पनापत्तेः व्यवहारस्य बुद्धिविशेषधर्मैरेवोपपत्तेः, यदि चाचित्सामान्यनिष्ठ एवाचिद्विवर्तः कल्प्यते तदा तुल्यन्यायाचिद्विवतोऽपि चित्सामान्यनिष्ठ एवाभ्युपगन्तुं युक्तो न तु चिदचिद्विवर्त्ताधिष्ठानमेव कल्पयितुं युक्तं, नयादेशस्य सर्वत्र द्रव्ये तुल्यप्रसरत्वात् । कौटस्थ्यं त्वात्मनो यच्छ्रुतिसिद्धं तदितरावृत्तिस्वाभाविक ज्ञानदर्शनोपयोगवत्त्वेन समर्थनीयम् । निर्धर्मकत्वं चितः कौटस्थ्यमित्युक्तौ तत्र प्रमेयत्वादेरप्यभावप्रसङ्गात्, तथा च " सच्चिदानन्दरूपं क्ष" इत्यादेरनुपपत्तिः । श्रसदादिव्यावृत्तिमात्रेण सदादिवचनोपपादने च चित्वमप्यचिद्वयावृत्तिरेव स्यादिति गतं चित्सामान्येनापि । यदि च " उत्पादव्ययधौव्ययुक्तं सद् इति गुणस्थलोपदर्शितरीत्या स (द) लक्षणं सर्वत्रोपपद्यते तदा संसारिमुक्तयोरसाङ्कर्येण स्वविभावस्वभावपर्यायैस्तदबाधमानं बन्धमोक्षादिव्यवस्थामविरोधेनोपपादयतीति एतज्जैनेश्वरप्रवचनामृतमापीय " उपचरितभोगाभावो मोक्षः " इत्यादि मिथ्यादृग्वचनवा - सनाविषमनादिकाल निपीतमुद्वमन्तु सहृदयाः ! | अधिकं लतादौ ॥ ॥इति पातञ्जले साङ्ख्यप्रवचने योगशास्त्रे विभूतिपादस्तृतीयः॥
17
20
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥४- १॥
तत्र कायेन्द्रियाणामन्यजातीयपरिणतानाम्जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ ४-२ ॥