________________
जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः
प्रतिपत्तिः ॥३-५३ ॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति
विवेकजं ज्ञानम् ॥ ३-५४ ॥ प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वासत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥३-५५॥ ___ भाष्यम्-यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रत्ययमात्राधिकार दग्धक्लेशवीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवापन्नं भवति । पुरुषस्योपचरितभोगाभाव! शुद्धिः । एतस्यामवस्थायां कैवल्यं भवति ईश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिनः इतरस्य वा। न हि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्त्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्य झानं चोपक्रान्तम् । परमार्थतस्तु ज्ञानाददर्शनं निवर्तते, तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः, क्लेशाभावात् कर्मविपाकाभावः । चरिताधिकाराश्चैतस्यामवस्थायां गुणाः न पुनदृश्यत्वेनोपतिष्ठन्ते । तत् पुरुपस्य कैवल्यं, तदा पुरुषः स्वरूपमाज्योतिरमलः केवली भवतीति ।।
(य०)-अत्रेदं चिन्त्यम्-ऐश्वर्य लब्धिरूपं न समाधिरूपसंयमजन्यं, वैचित्र्यप्रतियोगिनस्तस्य विचित्रक्षयोपशमादिजन्यस्वात् । एकत्र यरूपस्य च संयमस्य चित्तस्थैर्य एवोपयोगो