________________
[३६] व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावी निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥३-९॥ तस्य प्रशान्तवाहिता संस्कारात् ॥३-१०॥
सर्वार्थेकाग्रतयोः क्षयोदयो चित्तस्य ततः पुनः समाधिपरिणामः ॥३-११॥ शान्तोदितो तुल्यप्रत्ययो चित्तस्यै
काग्रता परिणामः ॥३-१२ ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा
व्याख्याताः ॥३-१३ ॥ तत्रशान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥३-१४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ।। ३-१५॥ परिणामत्रयसंयमादतीतानागतज्ञानम् ॥३-१६॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रवि.
भागसंयमात्सर्वभूतस्तज्ञानम् ॥३-१७॥ संस्कारसाक्षात्करणापूर्वजातिज्ञानम् ॥३-१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥ ३-१९ ॥
C