________________
प्रथम-स्तवः आपत्तूलमहानलकीले ! पालनशीले ! भूतिखने ! धु तिजितचम्पकदामकलापे ! मधुरालापे ! हंसगते ! । विभ्रमरञ्जितशङ्करहृदये ! कृतजगदुदये ! शैलसुते ! जय जालन्धरपीठविलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥३॥ मूले दीपककलिकाकारे ! विद्यासारे ! भवसि परा तस्मादपसृतिकलनावृद्ध ! मणिपुरमध्ये पश्यन्ती । स्वान्ते मध्यमभावाकूता, कण्ठे वितता वैखरिका जय जालन्धरपीठविलासिनि ! दुःखविनाशिनि ! भक्तिवशे!॥ ४॥
३ - संसारविषवृक्षोत्था आपद एव तूलाः कार्पासाः तदन्तर्ध्वलितो यो महानलः तीव्रतमो ज्वलन. तं कोलति अवष्टभ्नाति, तत्संबुद्धिः । पालनं योगक्षेमप्रदानरूपं शीलं यस्या । भूतीनां अणिमाद्यानां खनि.आकरः 'खनिः स्त्रियामाकरःस्यात्' इत्यमरः । द्यु तिजितचम्पकदामकलापे द्योतते इतिद्युतिः कान्ति., तया जितःन्यगभावं नीत', चम्पकदाम्नां स्वर्णसवर्णानां कलापः कदम्बकं अनया। मधुरः श्रवणप्रिय आलाप. आभाषणं यस्याः । हंसगते हंसवाहने। विभ्रमेण विलासेन रञ्जितं प्रसादितं शंकरस्य हृदयमनया | कृतजगदुदये कृतः जगतां स्थावरजङ्गमात्मनां उदय. उद्गमोऽनया। शैलस्य हिमवत सुता तनयात्वरूपेणावतीर्णा । अन्यत्पूर्ववत् ।
४-मूले पराधाम्नि मूलाधारचक्र, दीपकस्य पुष्पवर्तिकायाः कलिका इव कोरक इव आकारः स्वरूपं यस्या । विद्यानां भुक्तिमुक्तिश्रियोपश्लिष्टानां सारे सारस्वरूपे त्वं परा भवसि परेति लोके गीयसे । तस्मात् परामण्डलात्, अपसृति. अपसरणं, अग्रगमनमिति यावत् । तस्या. कलना व्यापार', तया वृद्ध वृद्धिमपगते । मणिपुरमध्ये, मणिपुरं नाभिस्थितं दशदलं पद्मम्, तन्मध्ये तदन्तः । सामयिकपूजायां मणिभी रत्नैः पूर्यते देवी इति तच्चक्र मणिपुरमित्युच्यते । अस्मिन् चक्र विष्णोरवस्थानमित्यागमः । पश्यन्ती, पश्यन्तीति व्यवहारपदयोग्या संपद्यसे । स्वान्ते हृदयपरिसरे मध्यमभावः अनाहतनादात्मा प्राकृत अभिप्रायो यस्याः । कण्ठे कण्ठकुहरे वितता व्याप्तिमागता वैखरिका वैखरीवाकस्वरूपा । पट्चक्रादिनिरूपणे प्रसिद्धाया.
'चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीपिण. । गुहा त्रीणि निहिता नेगरन्ति तुरीयं वाचो मनुष्या वदन्ति ।'