________________
आत्मोपदेशः उद्दश्यभेदेन विधेयभेदे
शास्त्राण्यनेकानि भवन्ति तावत् । तत्रास्तिकैराद्रियमाणमेव
विभावनीयं परमार्थसिद्धय ॥२॥
कर्मणां हृदयसाक्षिकं वास्तविकं वा निभालनम् । तत्र च मानुषस्वभावसुलभायाः दोषसंक्रान्तेः यथाकालं यथान्यायं च शुद्धनान्तःकरणेन परिमार्जनम् । तत एव सुहृद्भ त्वोपदिशत्याचार्य:
'अहन्यहनि वीक्षेत कृतं चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं किं नु तुल्यं महात्मभिः ।।' इति । तदेवमात्मन आलोचनं कुर्वता सर्वभावेन अप्रमादिना भवितव्यमिति तात्पर्यम् । परितोपस्य सर्वविधायाः संतोषवृत्तेः पुष्टि पोषणम् । न पुनरसटुपायानवलम्ब्य लुब्धकबुद्ध या केवलमर्थार्जनाय धावनमिति । एतदभिप्रायेणेव मनुण्याहस्म
'सतोषं परमास्थाय सुखार्थी संयतो भवेत् ।
संतोषमूलं हि सुखं दु खमूल विपर्ययः ।।' इति । पतञ्जलिरपि-'संतोपादनुत्तमः सुखलाभः ।' इत्युपदिदेश । तत इदमपि न विस्मर्तव्यम्
'यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् । यद् यदात्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ।। सर्व परवशं दुःखं सर्वमात्मवश सुखम् ।
एतद् विद्यात् समासेन लक्षण सुखदुःखयोः ॥ इति । तदित्थं लोकयात्रामनुवर्तमानेन यत्र क्वापि तिष्ठता यथालाभसतुष्टेन भाव्यमिति भावः । एता अनुपदं परिगणिताः, चतस्रो वृत्तय , यत्र यस्मिन् पुरुषपुंगवे निवसन्ति, स अघैः पापप्रकृतिभूतै १ खादिभिः, वर्तमानोऽपि तदन्तःपातमनुभवन्नपि, तै न लिप्यते न संस्पृश्यते । प्रत्युत अम्भसा पलाशपत्रमिव निर्लिप्तमेवात्मानमनुपश्यति ।
२-उद श्यस्य चिकीर्पितुमिष्टस्य, भेदेन विधेयस्य विधातुमुपात्तस्य कार्यजातस्य भेदो भवति । इदमन तात्पर्यम्