________________
दुर्गा-पुष्पाञ्जलिः
आत्मोपदेशः। शास्त्रप्रतिष्ठा गुरुवाक्यनिष्ठा
सदात्मदृष्टिः परितोषपुष्टिः । चवस्त्र एता निवसन्ति यत्र
स वर्तमानोऽपि न लिप्यतेऽधैः॥१॥
आत्मोपदेशः।
१-शास्त्रप्रतिष्ठा । शिष्यते अनेन इति शास्त्रम् । 'शासु अनुशिष्टौ' । त्रयीतरङ्गितः आप्तजनैरुपदिष्टः अङ्गोपाङ्गतया प्रसिद्धः हितानुशासनपरो ग्रन्थराशिः । तस्य प्रतिष्ठा गौरवसंरक्षणम् । यतः शास्त्रादेव यावत्कर्तव्यकर्मणां निर्णय अवधार्यते । अतएव भगवान् वासुदेवः
'यः शास्त्रविधिमुत्सृज्य वतर्ते कामचारतः । न स सिद्धिमवाप्नोति, न सुखं न परां गतिम् ।। तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।'
(गी० १६. २३-२४) गिरति अज्ञानं, गृणाति उपदिशति च तात्त्विकमर्थमिति गुरुः शास्त्ररहस्योपदेष्टा । तस्य वाक्येपु उपदेशेषु निष्ठा एवमिदमिति निश्चयारूढतया अवस्थानम् । तथा च मुण्डकश्रुतिः
'तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समित्पाणिः
श्रोत्रियं ब्रह्मनिष्ठम् ।' इति । एवं भगवद्गीतास्वपि
'तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन' ।। इति । सर्वदा सर्वस्मिन्नपि काले, आत्मनि दृष्टिः आत्मदृष्टि. । स्वात्मपरमार्थचिन्तनमिति यावत् । एवं व्यवहारदशायां आत्मनः कर्तव्यतया इष्टानां क्रियमाण-करिष्यमाण