________________
पूजापद्धति:
[ ६१
कुर्यात्, ॐ ॐ ह्रीं क्रों यं रं लं वं शं षं सं हं सः श्रीमच्छी भुवनेश्वर्याः प्राणा इह प्राणा इह ॥ २१ ॥ जीव इह स्थितः ॥ २१ ॥ सर्वेन्द्रियाणि इह स्थितानि इह स्थितानि ॥ २९ ॥ वाङ्मनस्त्वक्चक्षुः श्रोत्रजिह्वाघाणप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा, इति प्राणप्रतिष्ठां कृच्चा, पीठे पुष्पं दत्वा दिग्बन्धनं कृत्वा अवगुण्ठ्य सकलीकृत्य परमीकरणं विधाय धेनुयोनिमुद्रे प्रदर्श्य, शक्तिमुद्रां प्रदर्श्य, वराभयपुस्तकातमा लाज्ञानाङ्कश चापवाणकपालमालादिमुद्राः प्रदर्श्य, ततः पुष्पहस्तमुद्रया श्रीपात्रामृतेन सायुधां सवाहनां सपरिवारां समुद्रां सावरणां श्रीमच्छ्री महेश्वर भैरवसहितां श्रीभुवनेश्वरीं तर्पयामि नम इति त्रिः पीठोपरि संतर्प्य, पुनरपि मूलान्ते श्रीमच्छ्री भुवनेश्वरीपादुकां तर्पयामि नमः इति त्रिः संतर्प्य । अथ षोडशोपचारपूजां कुर्यात्, मूलान्ते एतत्पाद्यं श्रीमच्छ्री भैरवसहितायै श्रीभुवनेश्वय्यै नमः पादयोः पाद्यं, मूलान्ते इदमर्घ्यं स्वाहा शिरसि, मूलान्ते इदमाचमनीयं स्वाहा मुखे, मूलान्ते इदं मधुपर्क खधा मुखे, मूलान्ते इदं स्नानीयं नमः सर्वाङ्गे इत्यादि सुखाप्य शुद्धदुकूलेनाङ्गं प्रोन्छ अथ मूर्ती विचित्रपट्टवत्र कुंकुम कस्तूरीचन्दन सिन्दूरमुकुटकुण्डलमाल्यमुक्ताहारंत्रयादिनानालङ्कारान् दत्वा संभ्रूष्य पुनराचमनीयं दद्यात्, ततो मध्यानामाङ्गुष्ठाग्रमुद्रया मूलान्ते अयं गन्धो नमः, इति गन्धं दत्त्वा ततोऽङ्गुष्ठतर्जन्यग्रया मुद्रया मूलान्ते इमानि पुष्पाणि वौषट् इति पुष्पाणि दत्त्वा ततो धूपपात्रं फडिति संप्रोदय सम्मुखे संस्थाप्य वामहस्ततर्जन्या संस्पृशन् सूलान्ते धूपं निवेदयामि नम इति जलं दत्वा ततः 'ॐ जगदध्वनिमंत्र मातः स्वाहा' इत्यनेन गन्धादिभिः घण्टां सम्पूज्य वामपाणिना घण्टां वादयन् दक्षिणपाणिमध्यानामाङ्गुष्ठैर्धूपपात्रं समुद्धृत्य 'गायत्री मूलं च पठन
ॐ वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः । श्रायः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
सवाहनसपरिवारसायुधसमुद्रसपरिच्छद सावरण श्रीमच्छी महेश्वर भैरव
मूलान्ते सहिताय श्रीभुवने धूपं निवेदयामि नम इति त्रिधा उत्तोल्य देवीं धूपयेत् । ततो दीपपात्रं सम्मुखे संस्थाप्य पूर्ववत् प्रोक्षणं पूजनं च कृत्वा वामहस्तमध्यमया दीपपात्रं संस्पृशन पूर्ववन्मूलसावरणान्ते दीपं निवेदयामि इति दक्षिणपाणिना जलेन निवेद्य पूर्वaari वादयन् दक्षिणपाणिना मध्यानामामध्ये दीपपात्रमङ्गुष्ठेन धृत्वा दर्शयन् मूलगायत्री च पठन् -