________________
३२]
___ भुवनेश्वरीपञ्चाङ्गम् न्यस्तव्यं' वदने मूलं पुनश्चैतांस्तनौ न्यसेत् । कण्ठमूले स्तनद्वन्द्वे वामांसे हृदयाम्बुजे ॥ १० ॥ सव्यांसे पार्श्वयुगले नाभिदेशे च दैशिकः । भालांसपार्श्वजठरे पार्श्वमपकरें हृदि ॥ ११ ॥ ब्रह्माण्याद्यास्तनौ न्यस्या विधिना प्रोक्तलक्षणाः । मृलेन व्यापकं देहे न्यसेद्देवीं विचिन्तयेत् ।। १२ ॥ उद्यदिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखी वरदाङ्कुशणशाभीतिकरां प्रभजे भुवनेशीम् ॥ १३ ॥ प्रभजेन् मन्त्रविन्मंत्रं द्वात्रिंशल्लक्षमानतः । .. त्रिस्वादुयुक्तैर्जुहुयादष्टद्रव्यैर्दशांशतः ।। १३ ।। दद्यादयं दिनेशाय तत्र संचिन्त्य पार्वतीम् । : पद्माकारं लिखेद्यन्त्रं तत्काले साधकोत्तमः ।। १४ ॥ . पद्ममष्टदलं वाह्य पद्म षोडशभिर्दलैः।.. . विलिखेत् कर्णिकामध्ये पट्कोणमतिसुन्दरम् ॥ १५ ॥ विन्दुत्रिकोणं रसकोणसंयुतं वृत्ताञ्चितं नोगदलेन मण्डितम् ।.. कलारवृत्तत्रयभूगृहाङ्कितं श्रीचक्रमेव नवशक्तिसमन्वितञ्च ।। १६ ।।. जयाख्या विनया पश्चाद जिताह्वाऽपराजिता । नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नव ॥ १७ ॥ वीजाद्यमासनं दत्त्वा मूर्ति तेनैव कल्पयेत् । . तस्यां सम्पूजयेदेवीमावाह्यावरणैः क्रमात् ॥ १८॥ मध्यप्रदक्षिणोंदीच्यपश्चिमेषु यथाक्रमम् ।। हल्लेखाद्याः समभ्याः पञ्चभूतसमप्रभाः ॥ १६ ॥ वरपाशाङ्कुशाभीतिधारिण्योऽमितभृषणाः ।... स्थानेषु पूर्वमुक्तेषु पूजयेदङ्गदेवताः ॥ २० ॥
१. न्यस्तव्यौ । २. पावासापरके । ३. वरदादिस्थितिस्तु पदार्थादर्श यथा---वामाधोहस्ते
वर, दक्षिणोचे अंकुशं, वामोर्चे पाशं, दक्षाधोभयमिति सम्प्रदायविदः । ४. प्रजपेन् । ....५. निस्वादूक्कैः प्रजुहुयादष्टद्रव्यैर्दशांशतः । त्रित्वादु घृतमधुशर्कराः, अष्टद्रव्याणि-'अश्वत्थोदुम्बर- :
प्लक्षन्यग्रोधसमिस्तिलाः । सिद्धार्थपायसाज्यानि दव्याण्यष्टौ विदुर्बुधा' इति । ६. मध्यप्राग्याम्यसौम्येषु पश्चिमेषु यथाक्रमात् । .........
.
.