________________
. [ २१
..... प्रबोधिनीटीकासहितम् - निन्दितचन्दनेन्दुकदलीकान्तारहारस्रजः' निन्दिताः चन्दनेन्दुकदलीकान्तारहारस्रजो . . याभिस्ताः तथा । अपरं किम्भूताः स्त्रियः निश्वासभ्रमबाष्पदाहगहनाः निश्वासभ्रमेण निश्वासचलनेन मोचनेन यो वाष्पः ऊष्मा स एव दाहः तेन गहनाः व्याकुलाः ॥२६॥
इदानीं भगवत्याः पुनानान्तरेण फलान्तरमाहमातः श्रीभगमालिनीत्यभिधया दिव्यागमोत्तंसितां - त्वामानन्दमयीमनुस्मरति यस्तं नाम वामभ्रवः । बाहुस्वस्तिकपीडितै स्तनतटैर्दैन्याञ्चितैश्चाटुभि
नीरन्धैः पुलकांकुलै मुकुलितैयायन्ति नेत्राञ्चलैः ॥ ३० ॥
मातरिति-नाम इति सम्बोधने हे मातः ! यः पुमान् भगमालिनी त्यभिधयाऐं ह्रीं ... आनन्दमयी भगमालिनि स्वाहेति त्वां दिव्यागमोत्तंसितां दिव्यागमें उत्तंसितां ... शेखरीकृतां त्वां आनन्दमयीमानन्दस्वरूपां अनुस्मरति अनुचिन्तयति तं पुरुष
वामभ्रुवो वरवर्णिन्यः ध्यायन्ति, कैः स्तनतटैः किम्भूतैः बाहुस्वस्तिकपीडितैः बाहुस्वस्तिकेन दोर्दण्डमण्डलेन पीडितैः, पुनः किम्भूतैः स्तनतटैः पुलकांकुरैः, अपरं कैः चाटुभिः प्रियवचनैः किम्भूतैश्चाटुभिः दैन्याञ्चितैः अहं तव दासी भवामीति दैन्यसहितः,
पुनः कैः नेत्राञ्चलैः१० नियमितैः तदवलोकनादि[ना न्यनिरीक्षणे'' विषयीकृतैः१२ ... तदवलोकनतत्परित्यर्थः ।। ३० ।।
अथ पुनरिदानीं ध्यानान्तरेण फलान्तरमाह वृत्तयुगलेन
यस्त्वां ध्यायति रागसागरतरत्सिन्दूरनौकान्तर.... स्वैरोजागरपद्मरागनलिनीपुष्पासनाध्यासिनीम् । बालादित्यसपत्नरत्नरुचिर प्रत्याभूषारुचि
श्रेणीसम्मिलिताङ्ग"रागवसनास्तस्य स्मरन्त्यङ्गनाः ॥३१॥ १. चन्दनश्च इन्दुश्च कदलीकान्तारं कदलीवनञ्च हारस्रजश्च, इति 'ग' प्रती विशेषः । २. यद् वा निश्वासानां भ्रम श्रावतः बाप्पान्यभूणि दाहोन्तर्बहिस्सन्तापश्च तैर्गहनाः व्याकुलाः
इति 'ग' प्रतौ विशेषः। ३. ख, ग, पुलकांकुरैः। ४. ख. प्रसिद्वौ।। ५. ख. श्रीभगमालिनी। ६. ख. आनन्दमयि । . ७. ग. शेवागमे रुद्रयामलादी। ८. ख. स्वस्तिकाकृतिबाहुमण्डलेन । ६. ख. रोमाञ्चितैः । १०. ग, नयनप्रान्तः ___ कटाक्ष रित्यर्थः किम्भूतैः नीरंधेः निश्चलैः चलनक्रियारहितैः पुनः। ११. ख. ग. तदवलोकनादन्यनिरीक्षणे । १२. ख. निविपयीकृतैः; ग. अविषयीकृतैः । १३. 'ख' पुस्तके पद्य इमे पार्थक्येन व्याख्याते स्तः। १४. ख, रचित । १५. स. ग. संवलिताङ्ग ।