________________
१८]
भुवनेश्वरीमहास्तोत्रम् .... अथ' भगवत्या वर्णमयशरीरस्य भजनफलमाह - एवं वर्णमयं वपुस्तव शिवे लोकत्रय व्यापकं
योऽहंभावनया भजत्यवयवेष्वारोपितैरक्षरैः। सूर्तीभूय दिवावसान कमलाकारैः शिरः शायिभि
स्तं विद्याः समुपासते करतलैष्टिप्रसादोत्सुकाः ॥ २५ ॥ एवमिति-हे शिवे ! एवं अमुना प्रकारेण यः पुमान् तब वर्णमयं वपुलॊकत्रयव्यापकं .. भजति आश्रयति कया कृत्त्वा अवयवेषु शरीरावयवेषु आरोपितैः अक्षरैः अहंभावनया अहमेव वर्णमय इति मत्वा तं पुरुषं विद्याश्चतुर्दश विद्याः मूर्तीभूय मूर्तिरूपा भूत्वा करतलैः समुपासते, किम्भूताः विद्याः दृष्टिप्रसादोत्सुका: इयमस्मासु दृष्टया प्रसाद करिष्यतीत्युत्सुकाः । शिरःशायिभिः शिरःसन्निविष्टैः, पुनः किम्भूतैः दिवावसानकमलाकारैः दिवावसाने सायं समये कमलाकारा इव आकाराः प्राकृतयो येषां ते तथा तैः मुकुलाकृतरित्यर्थः ॥ २५ ॥ ... ...
. अथ भगवत्या ध्याने फलान्तरमाह-- ......... ये जानन्ति जपन्ति सन्ततममिध्यायन्ति गायन्ति वा . तेषामास्यमुपास्यते मृदुपदन्यासर्विलासैनिराम् । किं च क्रीडति भूर्भुवःस्वरभितः श्रीचन्दनस्यन्दिनी
कीर्तिः कार्तिकरात्रिकैरवसभासौभाग्यशोभाकरी ॥२६॥ य इति-हे जननि ये पुरुषाः एवं विधं ते तव वर्णमयं वपुर्जानन्ति अथवा यजन्ति' सततमभिध्यायन्ति वा अथवा गायन्ति वा तेषामास्यं तेषां पुरुषाणां प्रास्यं मुखं गिरा ... विलासैः वाचां विलसनैः उपास्यते किम्भूतैः गिरां विलासैः मृदुपदन्यासैः कोमलपद-... विरचनैः न केवलं तदेव भवति किं च तेषां पुरुषाणां भूर्भुवः स्वरभितः भूर्लोक "मभिव्याप्य कीर्तिः क्रीडति किम्भूता कीर्तिः कार्तिकरात्रिकैरवसभासौभाग्यशोभाकरी : कार्तिकस्य रात्रौ यः कैरवसमुदायः तस्य सौभाग्यशोभा सुन्दरकान्तिः तां करोतीति. तथा, पुनः किम्भूता श्रीचन्दनस्यन्दिनी श्रीचन्दनं अमृतं इव स्यंदनमिति'२ ॥ २६ ॥
१. ख. इति । २ ख. भजनमाह । ३. ग. लोकत्रये । . ४. ग. दिनावसान । ५. ग. स्थायिभिः । ६. ख. अयमस्मासु । ७. ख. मुकुलाकृतिमिरित्यर्थः । ८. ख. इदानीं । ६. ख. ध्यानेन । १०. ख, जपन्ति । .... ११. ख. भूर्लोकादि; ग. भूलोकं भुवलॊकं स्वलोकमभिव्याप्य । १२. ख: स्यंदत इति;
ग. श्रीचन्दनममृतद्रवं स्यन्दते स्रवति सा तथा ।