________________
पृथ्वीराधराचार्यपद्धती
एह्येहि देवदेवेशि भुवनेशि सुरपूजिते ! परामृतप्रिये शीघ्रं सान्निध्यं कुरु सिद्धिदे ! ॥ महापद्मवनान्तस्थे करुणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ! ।। अस्मिन् मण्डले सान्निध्यं कुरु कुरु नमः' इति विन्दौ पुष्पाणिनिक्षिपेत् । सकलीकृत्य-हीं भुवनेश्वरी सकलीकरोमि स्वाहा । ह्रीं भुवनेश्वरी आवाहयामि । स्वाहा । ह्रीं भुवनेश्वरी स्थापयामि स्वाहा । ह्रीं भुवनेश्वरी संरोधयामि स्वाहा ।। ह्रीं भुवनेश्वरी प्रसादयामि स्वाहा । एताः पञ्चमुद्राः प्रदर्शयेत् ।
ततः मूलविद्यायाः पडङ्गन्यासध्यानं विधाय यन्त्रमध्ये श्रीभुवनेश्वरीप्राण- . प्रतिष्ठां कुर्यात् । तद्यथा “ॐ श्रां ह्रीं क्रों यं रं लं वं शं पं सं हं हं हं सः । सोहं अस्मिन् मण्डले श्री भुवनेश्वरी प्राणा इह प्राणाः, ॐ श्रां ह्रीं क्रों यं रं लं .... वं शं पं सं हं हं हं सः सोहं अस्मिन् मण्डले श्रीभुवनेश्वरीजीव इह स्थितः, ॐ श्रां ह्रीं क्रों यं रं लं वं शं पं सं हं हं हं सः सोहं अस्मिन् मण्डले श्रीभुवनेश्वरीसर्वेन्द्रयाणि वाङ मनस्त्याचक्षुःश्रोत्रजिह्वाघ्राणप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।'इति यन्त्रोपरि पुष्पाक्षतान्निक्षिपेत् । ततः पञ्चदशमुद्राः प्रदर्शयेत् । ह्रीं भुवनेश्वर्यै अमृतमुद्रां परिकल्पयामि स्वाहा । एवमन्याः प्रदर्शयेत् । धेनुमुद्रा १, योनि २, महायोनि ३, नवयोनि ४, सिंह ५, महाक्रांतमुद्रा ६, ग्रंथित ७, सम ८, मुकुल ६, पद्म १०, पाश ११, अंकुश १२, अभय १३, वरद १४, एताः प्रदर्शयेत् । पुनः 'उद्यदिनद्युतिमिन्दुकिरीटा मिति ध्यात्वा मूलमंत्रमुच्चार्य श्रीभुवनेश्वर्यम्बा श्रीपादुकां पूजयामि नमः तर्पयामि । त्रिःपादयोः पुष्पाञ्जलिं दत्वा सन्तप्र्य । ततो मूलमन्त्रेण देव्यै आसनं कल्पयेत् । तद्यथा ह्रीं भुवनेश्वर्यै आसनं नमः । ह्रीं भुवनेश्वर्यै अयं स्वाहा । ह्रीं भुवनेश्वर्यै पाद्यं स्वधा । ह्रीं भुवनेश्वर्यै आचमनीयं स्वधा । हीं भुवनेश्वर्यै मधुपर्क स्वधा । ह्रीं भुवनेश्वर्यै स्वर्ण पादुकां समर्पयामि नमः । उत्तरतः स्नानमण्डपं परिकल्प्य . रत्न सिहासने संस्थाप्य ह्रीं भूवनेश्वर्यै केशप्रसाद ध]नमभ्यङ्गं सं०, ह्रीं .. भुवनेश्वर्यै गन्धामलकोद्वर्त्तनं स०, मूलबीजं भवनेश्वर्यै इति सर्वत्र योजनीयम् ।
१. कारणानन्द इत्यपि पाठः।