________________
श्रीभुवनेश्वरीक्रमचन्द्रिका
[१३६ .. अखण्डकरसानन्दकरे परसुधात्मनि ।
स्वच्छन्दस्फुरणा तत्र निधेह्यमृतरूपिणि ॥ ह स क्ष ल व र य ऊं आनन्दभैरवाय वौषट् , स ह क्ष म ल व र य ऊ सुधादेव्यै वौषट् इत्यय॑मध्ये आनन्दभैरवमिथुनं तइबिन्दुभिरेव संतl
अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ।
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।। पुनरानन्दभैरवमिथुनं तविन्दुभिरेव सन्तर्प्य
तद्रूपेणैक्यरस्यत्वं दत्वा ह्येतत्स्वरूपिणी ।
भूत्वा कुलामृताकारे मयि चित्स्फुरणं कुरु । . पुनरानन्दभैरवमिथुनं तदबिन्दुभिरेव सन्तर्प्य मूलेन सप्तधाऽभिमन्व्य अस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य धेनुयोनिमुद्राः प्रदर्शयेत् । 'समुद्र मथ्यमाने तु' इत्यनेन सुधां ध्यात्वा सुधागायत्री जपेत् । 'ऐं सुधादेवि विद्महे ह्रीं समुद्रोद्भवे धीमहि श्रीं तन्नो रक्काक्षी प्रचोदयात्' इति सुधागायत्री सप्तवारं जपित्वा आवाहनादिमुद्राः प्रदर्श्य विशेषार्ध्यवारिणा आत्मानं पूजोपकरणानि च प्रोक्ष्य पात्रं गन्धादिनैवेद्यान्तं पूजयेत् । इति विशेपार्घ्यपात्रस्थापनम् । तत्पुरतः मूलेन शक्तिपात्रं स्थापयेत् । तत्पुरतः मूलेन भोगपात्रं स्थापयेत् । तत्पुरतः गुरुपादुकाविद्यया गुरुपात्रं स्थापयेत् । तत्पुरतः मूलेन आत्मपात्रं स्थापयेत् । पात्राणि कलशामृतेन मूलविद्यया पूरयेत् । गन्धाधु पचारान्तं पूजयेत् । बलिपात्राणि च बलिदानसमये स्थापयेत् । इति पात्रस्थापनविधिः ॥ • अथात्मपूजनम् । तत्रादौ संविद्वदनं ततः शिरः पीठे ह्रीं शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलारागकालनियतिपुरुषप्रकृतिअहङ्कारबुद्धिमनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणवाक्पाणिपादपायपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलभूम्यात्मने योगपीठासनाय नमः, इति शिरसि गन्धाक्षतपुष्पादिभिः श्री गुरोः पीठं संपूज्य । ॐ ह्रीं बीजेन श्रात्मपात्रं संस्पृश्य दक्षहस्ते गृहीत्वा वाम अक्षतान् गृहीत्वा मूलमंत्रमुच्चार्य मूलाधारं चतुर्दलं देवतासहितं पूजयामि तर्पयामि नमः, एकैकं चुलुकं ग्राहयेत् । मू० स्वाधिष्ठानं षड्दलं देवतासहितं पू० त० । मू० मणिपूरं दशदलं देवतासहितं पू० त०, मू० अनाहतं द्वादशदलं देवतासहितं पू० त०,