________________
भुवनेश्वरी क्रमचन्द्रिका
[ १११ तद्यथा-ॐ ह्रां हृदयाय अंङ्ग ठाभ्यां नमः । ह्रीं शिरसे स्वाहा तर्जनीभ्यां नमः । ह् शिखायै वषट् मध्यमाभ्यां नमः । हूँ कवचाय हुं अनामिकाभ्यां नमः । ह्रौं नेत्रयाय वौषट् कनिष्ठिकाभ्यां नमः । हः अस्त्राय फट करतलकरपृष्ठाभ्यां नम इत्थं षडङ्ग विधाय पाणिभ्यामाच्छाद्य मूलेन सप्तवारमभिमन्न्य । अमृतेश्वरी सप्तशो जपित्वा ध्यात्वाऽचम्य स्नायात् । तद्यथा-ॐ ह्रीं क्लीं आं अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय सां जू जू सः अमृतेश्वर्यै स्वाहा । . . . : .
प्रसृतामृतरश्म्यौघसन्तर्पितचराचरम् । __... भवानि ! भवशान्त्यै त्वां भावयाम्यमृतेश्वरीम् ॥
अन्तःशक्तिमभिध्यायन्नाधाराद् ब्रह्मरन्ध्रगाम् ।
तस्याः पीयूषवर्षेण स्नानमन्तः समाचरेत् ॥ .. इत्युक्तरीत्या ध्यात्वा निमज्योन्मज्य भूलेन सप्तवारं मार्जनं कृत्वा ततः अघमर्षणं
कुर्यात् । तद्यथा-दक्षिणपाणितले जलं गृहीत्या मूलेन सप्तवारमभिमन्त्रितं चिद्रपं स्मृत्वा वामपाणिना संघट्टमुद्रया भूलविद्यया त्रिवारं मूर्ध्नि अभिषिञ्च्यावशिष्टमुदक मिडया संगृह्य अन्तर्नाडी प्रक्षाल्य कलुषं कजलामं पिङ्गलया विरेच्य वामे वज्रशिला ध्यात्वा हुं फट् इति मन्त्रेण वामभागस्थवज्रशिलायामास्कालयेत् । ततो योनिमुद्रया शिरसि मूलेन त्रिवारमभिषिञ्च्यं हृदि बाबोस्त्रिरभिषिञ्चयेत् । ततो जलतर्पणम् । तान् देवांस्तर्पयामीति जलतर्पणं कृत्वा । ॐ ऐं ह्रीं श्रीं भुवनेश्वर्यम्बाश्रीपादुकां तर्पयामीति त्रिः सन्तर्प्य बहिर्निर्गच्छेत् । मूलेन धौते अनाहतवाससी संप्रोक्षिते परिधायाचम्य विभूतिधारणं कुर्यात् । तद्यथा
प्रक्षाल्य पाणिचरणावाचमेन्मूलविद्यया । उपवीतोत्तरीयाणि नवानि विमलानि च ॥ भस्मस्नानं पुरा कृत्वा त्रिपुण्डं धारयेत्ततः । ततः सम्यक् कुशासीनो कुर्यादुलनं क्रमात् ॥ • आपादमस्तकं देवि ! सितानवभस्मना । .. ... सर्वाङ्गोलनं कुर्यात् प्रणवेन शिवेन वा ॥
ततस्त्रिपुण्ड्रं रचयेत् त्रियायुषसमाह्वयम् ।। तद्यथा-विभूतिं वामहस्ते निधाय दक्षिणेन पाणिना पिधाय जातवेदसे' ... १. ॐ जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः ।
स नः पर्षदति दुग्र्गाणि विश्वा नावेव सिन्धु दुरितात्यग्निः ।।'ऋग्वेदः १ । ७।७।१।