________________
भुवनेश्वरी क्रमचन्द्रिका
[ १०६ .. इति पुरीषशौचः । ततो गण्डूषान् त्यजेत् । तत्र नियम:
चतुरष्टत्रिषभिश्च गण्डूषैः शुद्धयति क्रमात् ।
___ मूत्रे पुरीषे भुक्त्यन्ते रेतःप्रस्रवणेऽपि च ॥ ... अस्यायमर्थ:- . ...... . मूत्रे चतुरः, पुरीषेऽष्ट, भोजने त्रिः (त्रीन्: ) रेत:-प्रस्रवणे षट् ६ गण्डूषान् त्यजेत् । इत्थं शौचविधि विधाय । अथ दन्तधावनक्रमः
चूतचम्पकजम्बूकापामार्गादि वा प्रिये !
बदरं जातिवृक्षस्य दन्तकाष्ठं समाहरेत् ॥ तत्र प्रार्थना
श्रायुर्बलं यशो वर्चः प्रजापशुवसूनि च ।
श्रियं प्रज्ञाश्च मेधाश्च त्वन्नो देहि वनस्पते ! ...' इति वनस्पति प्रार्थ्य अष्टादशाङ्गुलं द्वादशाङ्ग लं नवाङ्ग लं षडङ्गलं वा - दन्तकाष्ठं गृहीत्वा “ॐ नमो भगवते मणिभद्राय यक्षसेनाधिपतये किलि किलि स्वाहा' इत्यनेन मन्त्रेण षोडशवारमभिमन्त्र्य "क्लीं कामदेवाय नमः" इत्यनेन मन्त्रेण दन्तान् जिह्वया सह संशोध्य मूलेन मुखं त्रिपक्षालयेत् । ततः स्नानसामग्री गृहीत्वा प्रातःस्मरणादिकं पठन्नद्यादि जलाशयं गच्छेत् स्नायाच्च । तद्यथा हस्तौ णदौ प्रक्षाल्याचम्य तिथ्यादिकं सङ्कीर्त्य मम समस्तपापक्षयार्थ देवताप्रसादसिद्धयर्थं स्नानमहं करिष्य इति संकल्प्य । तत्रादौ मृत्तिकास्नानम्-मूलमन्त्रेण पादावारभ्य जानुपर्यन्तं जान्वादि नाभिपर्यन्तं नाम्यादि वक्षोऽन्तं वक्षत्रादि कराठान्तं कएटादारभ्य मूर्धान्त
मित्यं मृत्तिकास्नानं विधाय ततो वैदिकस्नानमघमर्षणान्तं कृत्वा तान्त्रिकस्नानं कुर्यात् ।। - तद्यथा-ॐ ह्रीं आत्मतत्वं शोधयामि स्वाहा ॐ ह्रीं विद्यातत्वं शोधयामि स्वाहा
ॐ ह्रीं शिवतत्व शोधयामि स्वाहा । द्विःप्रमृज्य नासिकायां नयनयोः शिरसि दक्षिणकणे सकृत् स्पृष्ट्वा एवमाचम्य ।
... स्नानप्रकारो द्विविधो बाह्याभ्यन्तरभेदतः। - तत्रादौ अन्तःस्नानम्
आन्तरं स्नानमत्यन्तं रहस्यमपि पार्वति । कथयामि भवध्वंस्यै ( ध्वस्त्यै ) पञ्चवर्गाप्तयेऽपि च ॥