________________
अथ श्रीपृथ्वीधराचार्यपद्धतौ - श्रीभुवनेश्वरीक्रमचन्द्रिका ॥श्रीः ।। चित्प्रकाशं गुरुं वन्दे परमानन्दविग्रहम् ।
क्रियते स्वप्रकाशेन भुवनेशीक्रम महत् ॥ १ ॥ अथ मन्त्री ब्राह्म मुहूर्ते चोत्थाय स्वशिरसि श्रीगुरुचरणारविन्दं ध्यात्वा
प्रशास्महे नमोवाकमाकाशानन्दमूर्तये । शिवाय करुणाीय गुरुरूपमुपेयुषे ॥ २ ॥ स्वप्रकाशविमाख्यबीजाङ्कुरलतां पराम् । शृङ्गारपीठनिलयां वन्दे श्रीभुवनेश्वरीम् ॥ ३ ॥ ब्राह्म मुहूर्ते चोत्थाय ब्रह्मरन्ध्रे सिताम्बुजे । चिच्चन्द्रमण्डले शुद्ध स्फटिकाभं वराभये ॥ ४ ॥ दधानं रक्तया शक्त्या श्लिष्टं वामाङ्कसंस्थया । धारयन्त्योत्पलं दीर्घ नेत्रत्रयविभूषितम् ॥ ५॥ प्रसन्नवदनं शान्तं स्मरेत्तन्नामपूर्वकम् । रक्तशुक्लात्मकं तस्य संस्मृत्य चरणद्वयम् ॥ ६ ॥ गुरुश्च गुरुपत्नीञ्च देवं देवीं विभावयेत् । पादुकामन्त्रमुच्चार्य यथास्वगुरुरुक्तितः ॥ ७ ॥
तत्तन्मुद्रान्वितैर्गन्धाधुपचारैः प्रपूजयेत् । तद्यथा-लं. पृथिव्यात्मने परमात्मने गन्धतन्मात्रप्रकृत्यात्मने श्रीगुरुनाथाय गन्धं समर्पयामि कनिष्ठयोः । हं आकाशात्मने परमात्मने शब्दतन्मात्रप्रकृत्यात्मने श्रीगुरुनाथाय पुष्पं समर्पयामि अङ्गुष्ठयोः । यं वायव्यात्मने परमात्मने स्पर्शतन्मात्रप्रकत्यात्मने श्रीगुरुनाथाय धूपं समर्पयामि तर्जन्योः । रं अग्न्यात्मने परमात्मने रूपतन्मात्रप्रकृत्यात्मने श्रीगुरुनाथाय दीपं समर्पयामि मध्यमयोः। वं अवात्मने परमा