________________
अथ श्रीभुवनेश्वरीस्तोत्रम् अथानन्दमयीं साक्षाच्छब्दब्रह्मस्वरूपिणीम् ।
ईडे सकलसम्पत्य जगत्कारणमम्बिकाम् ॥ १ ॥ आद्यामशेषजननीमरविन्दयोनेविष्णोः शिवस्य च वपुःप्रतिपादयित्रीम् । सृष्टिस्थितिक्षयकरी जगतां त्रयाणां स्तुत्वा गिरं विमलयाम्यहमम्बिके ! त्वाम् ॥ २ ॥ पृथ्व्या जलेन शिखिना मरुतां वरेण होनेन्दुना दिनकरेण च मूर्तिभाजः । देवस्य मन्मथरिपोरपिशक्तिमत्ताहेतुस्त्वमेव खलु पर्वतराजपुत्रि ! ॥३॥ त्रिस्रोतसः सकलदेवसमर्चिताया वैशिष्ट्यकारणमवैमि तदेव मातः ! " त्वत्पादपङ्कजपरागपवित्रितासु शम्भोर्जटासु सततं परिवर्तनं यत् ॥ ४॥ · आनन्दयेत् कुमुदिनीमधिपः कलानां नान्यामिनः कमलिनीमथ नेतरां वा । एकत्र मोदनविधौ परमे क ईष्टे त्वन्तु प्रपञ्चमभिनन्दयसि स्वदृष्ट्या ॥ ५ ॥ आद्याऽप्यशेषजगतां नवयौवनाऽसि शैलाधिराजतनयाऽप्यतिकोमलाऽसि ।
त्रय्या प्रमूरपि तथा न समीक्षिताऽसि ध्येयाऽसि गौरि ! मनसो न पथि स्थिताऽसि ॥६॥ - आसाद्य जन्म मनुजेषु चिरादुरापं तत्रापि पाटवमवाप्य निजेन्द्रियाणाम् ।
नाभ्यर्चयन्ति जगतां जनयित्रि ! ये त्वां निःश्रेणिकाग्रमधिरुह्य पुनः पतन्ति ।। ७ ।। कर्पूरचूर्णहिमवारिविलोड़ितेन ये चन्दनेन कुसुमैश्च सुगन्धिगन्धैः। आराधयन्ति हि भवानि ! समुत्सुकास्त्वां ते खल्वशेषभुवनाधिभुवः प्रथन्ते ॥ ८॥ आविश्य मध्यपदवीं प्रथमे सरोजे सुप्ताहिराजसदृशी विरचय्य विश्वम् । विद्युल्लतावलयविभ्रममुद्वहन्ती पद्मानि पञ्च विदलय्य समश्नुवाना ॥६॥ तन्निर्गतामृतरसैः परिषिक्तगात्रमार्गेण तेन निलयं पुनरप्यवाप्ता । येषां हृदि स्फुरसि जातु न ते भवेयुर्मातर्महेश्वरकुटुम्बिनि ! गर्भभाजः ॥ १० ॥
आलम्बिकुण्डलभरामभिरामवक्त्रामापीवरस्तनतटीं तनुवृत्तमध्याम् । चिन्ताक्षसूत्रकलशालिखिताढ्यहस्तामावर्तयामि मनसा तव गौरि ! मूर्तिम् ॥ ११ ॥
आस्थाय योगमवजित्य च वैरिषटकमावद्धय चेन्द्रियगणं मनसि प्रसन्ने। .
पाशाङकुशाभयवराढयकरां सुवक्त्रामालोकयन्ति भुवनेश्वरि ! योगिनस्त्वाम् ॥ १२ ॥ ... उत्तप्तहाटकनिभाकरिभिश्चतुर्भिरावर्तितामृतघटैरभिषिच्यमाना । .. इस्तद्वयेन नलिने रुचिरे वहन्ती पद्माऽपि साऽभयवरा भवसि त्वमेव ॥ १३ ॥