________________
अथ श्रीभुवनेश्वर्या भकरादिसहस्रनाम स्तोत्रम्
ॐ अस्य श्रीभुवनेश्वरीसहस्रनामस्तोत्रमंत्रस्यसदाशिव ऋषिः, अनुष्टुप् छंदः, भुवनेश्वरी देवता, लज्जा वीजम्, कमला शक्तिः, वाग्भवं कीलकम्, सर्वार्थसाधने पाठे विनियोगः ॥
ॐ भुवनेशी भुवाराध्या भवानी भयनाशिनी । .. .. भवरूपा भवानन्दा भवसागरतारिणी ॥ १ ॥ . . भवोद्भवा भवरता भवभारनिवारिणी । भव्यास्या भव्यनयना भव्यरूपा भवौषधिः ॥ २ ॥ भव्याङ्गना भव्यकेशी भवपाशविमोचिनी । भव्यासना भव्यवस्त्रा भन्याभरणभूषिता ॥ ३ ॥ भगरूपा भगानन्दा भगेशी भगमालिनी। भगविद्या भगवती भगक्लिन्ना भगावहा ॥ ४ ॥ भगाङ्करा भगक्रीडा भगाढया भगमङ्गला। . भगलीला भगप्रीता भगसम्पदभगेश्वरी ॥ ५ ॥ .. भगालया भगोत्साहा भगस्था भगपोपिणी । भगोत्सवा भगविद्या भगमाता भगस्थिता ॥ ६ ॥ भगशक्तिर्भगनिधिर्भगपूजा भगेषणा । भगस्वापा भगाधीशा भगाळ भगसुन्दरी ॥ ७ ॥ ..... भगरेखा भगस्नेहा भगस्नेहविवर्धिनी । भगिनी भगवीजस्था भगभोगविलासिनी ॥ ८ ॥ भगाचारा भगाधारा भगाकारा भगाश्रया। भगपुष्पा भगश्रीपा भगपुष्पनिवासिनी ॥ ६ ॥ भव्यरूपधरा भव्या भव्यपुष्पैरलङ्कृता । '. भव्यलीला भव्यमाला भव्याङ्गी भव्यसुन्दरी ॥ १० ॥