________________
अथ कवचम्
श्रीगणेशाय नमः
ॐ अस्य श्रीभुवनेश्वरीमंत्रस्य शक्तिॠषिर्गायत्री छन्दः भुवनेश्वरी देवता हं बीजं ई शक्ति: रं कीलकं ममाभी प्रसिध्यर्थे जपे विनियोगः । शक्तिऋषये नमः शिरसि, गायत्रीछन्दसे नमो मुख, श्रीभुवनेश्वरीदेवतायै नमो हृदि, हं बीजाय नमो गु, ई शक्तये नमः पादयोः, रं कीलकाय नमः सर्वाङ्ग । ॐ ह्रां अंगुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां नमः, हूं मध्यमाभ्यां नमः हैं अनामिकाभ्यां नमः ह्रौं कनिष्टिकाभ्यां नमः, ह्रः करतलकरपृष्ठाभ्यां नमः । ह्रां हृदयाय नमः, ह्रीं शिरसे स्वाहा, हूं शिखायै वषट्, हैं कवचाय हुं, ह्रौं नेत्रत्रयाय वौषट् हः अस्त्राय फट् इत्यादि न्यासं कृत्वा ध्यायेत् —
,
ॐ उद्यदिन द्युतिमिन्दु किरीटां तुङ्गकुचां नयनत्रययुक्ताम् ! स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ।।
देव्युवाच
भुवनेश्याश्च देवेश या या विद्याः प्रकाशिताः । श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि साम्प्रतम् ॥ १ ॥ त्रैलोक्य मङ्गलं नाम कवचं यत् पुरोदितम्' । कथयस्व महादेव ! मम प्रीतिकरं परम् ॥ २ ॥
ईश्वर उवाच -
पार्वति शृणु वक्ष्यामि सावधानाऽवधारय । त्रैलोक्यमङ्गलं नाम कवचं मंत्रविग्रहम् || ३ || सिद्धिविद्यामयं देवि सर्वेश्वर्यप्रदायकम् । पठनाचारणान् मर्त्यस्त्रैलोक्यैश्वर्यवान् भवेत् ॥ ४ ॥ त्रैलोक्यमङ्गलस्यास्य कवचस्य ऋषिः शिवः । छन्दो विराट्र जगधात्री देवता भुवनेश्वरी ॥ ५ ॥ १. ख. पुरा कृतम् । २. ख. समन्वितम् । ३. ख. त्रैलोक्यैश्वर्यभाग ।